________________
अध्यायः १२]
मानसोल्लासः। मुजनोऽयमिति ज्ञात्वा स्वयं सद्गुणवान्धवः । करोत्यलोभत: सन्धि मित्रसन्धिः स उच्यते ॥ ७२९ ॥ कन्यादानेन यः कुर्यात् सन्धि कार्यवशामृपः।। सम्बन्धनः स विज्ञेयः सन्धिः सन्धिविचारकैः ॥ ७३० ॥ अन्योऽन्यस्योपकारार्थ यत्र सन्धीयते नृपः । परस्परोपकाराख्यः स सन्धिः मोच्यते बुधैः ॥ ७३१॥ गजानवांस्तथा रत्नं सुवर्ण भूमिमेव च । दत्त्वा यः क्रियते सन्धिरुपहारः स उच्यते ॥ ७३२ ।।
इति सन्ध्यध्यायः ॥ ११ ॥ मुयत्नेन सहायेन सामर्थ्येन बलेन च । मन्त्रैहीनेन भूपाळ सादै कुर्वीत विग्रहम् ।। ७३३ ।। कामजो लोभजथैव भूभवो मानसम्भवः । अभयाख्यः समाख्यात इष्टजोऽथ मदोत्थितः ॥ ७३४ ॥ अर्थशाने परः ख्यात एकद्रव्याभिलाषुकः । इत्यष्टौ विग्रहाः प्रोक्ता नवमो मोपलभ्यते ॥ ७३५ ।। स्त्रीनिमित्तो हि यो जातो विग्रहः कामजः स्मृतः । द्रव्यापहारजनितो विग्रहो लोभनस्तथा ॥ ७३६ ॥ भूम्यर्यमुत्थितो यस्तु विग्रहो भूभवो महान् । विरुदार्थ कृतो यस्तु विग्रहो मानसम्भवः ।। ७३७ ॥ शरणागतरक्षार्थ यो भवेद् विग्रहो महान् । अभयाख्यः स कथितो विग्रहो नीतिवेदिभिः ॥ ७३८॥ मित्रार्थे बन्धुभृत्यार्थे विग्रहो यः समाचरेत् । इष्टजः स तु निर्दिष्टो नीतिस्पष्टार्यदृष्टिभिः ॥ ७३९ ॥
Aho ! Shrutgyanam