________________
.
अध्यायः ८ ]
मानसोल्लासः। कुलीनं च सुशीलं च सुखे दुःखे च सम्मतम् । अमायं दृढचित्तं च धनैः प्राणैरवञ्चकम् ॥ ६८५॥ नीतिज्ञं शौचसम्पन्नं व्यसनेष्वपराङ्मुखम् । कुर्वीत नृपतिर्मित्रं धर्मार्थ सुखसिद्धये ॥ ६८६ ॥
__ इति सुहृदध्यायः ॥ ७ ॥ आत्मायत्तो नृपः श्रेष्ठो द्वयायत्तस्तु मध्यमः । कनिष्ठः सचिवायत्त इति नीतिविदो विदुः ॥ ६८७ ॥ मदधीनमिदं राज्यं राजा च वशगो मम । मया यत् क्रियते कार्य तत् कार्य केन लयते । ॥ ६८८ ॥ इत्यात्मगणाध्मातः सचिवो यत्र जल्पति । कनिष्ठं तत्र तत् राज्यं सचिवायत्तमुच्यते ॥ ६८९ ॥ विज्ञप्तं यन्मया कार्यमवश्यं मन्यते प्रभुः। इत्यारोप्य दयों माम्यं सचिवो यत् तु भापते । ६९० ॥ मुखासुखपदं चैवमुभयाधीनसिद्धितः । तद्राज्यमुभयायत्तं मध्यमं परिकीर्तितम् ॥ ६९१॥ प्रभोराज्ञां विना नाहं समर्थः कार्यसिद्धये । इति भीत्या नृपे भक्त्या सचिवो यत्र वक्त्यलम् ॥ ६९२ ॥ यत् तु राज्यं भयापेतं सुखदं सर्वसिद्धिदम् । श्रेष्ठं स्थिरतरं सम्यगात्मायत्तं प्रकीर्तितम् ॥ ६९३ ।। अनुग्रहे निग्रहे च दाने चादानकर्मणि । प्रवृत्तौ च निवृत्तौ च ग्रहणे मोक्षणे तथा ॥ ६९४ ॥ स्वयं समर्थो यो राजा स्वाज्ञा चैव निरर्गला । निजशक्त्या समायुक्तः स प्रभुः प्रभुरुच्यते ॥ ६९५ ॥
Aho ! Shrutgyanam