________________
मानसोल्लासः।
[विंशतिः२ पटोलपाठाकुष्ठानि निम्बधात्र्यमृता विषा। धान्यकं पपटं तिक्ता-वत्सके कफपित्तजित् ॥ ६५१॥ हिक सौवर्चलं शुण्ठी गुडं शूलस्य शान्तये । भ्यूषणेनाअनं चाक्ष्णोः शुण्ठ्या केवळयाऽपि वा ॥ ६५२ ॥ अश्वगन्धा कणा रात्रिः कृमिघ्नं रसपञ्चकम् । पृथक पृथक् पलान्यष्टौ वरिष्ठो मुष्टिमात्रकः ॥ ६५३ ॥ पञ्चभिलवणैर्युक्तो योगोऽयं हन्ति मारुतम् । मूत्रकृच्छ्रमथाध्मानं शूलं चापि व्यपोहति ॥ ६५४ ॥ कुटजं शृङ्गवेरं च यवक्षारं च चित्रकम् । पूतिद्वयं च सिद्धार्थ विडङ्गातिवषा घनः ॥ ६५५ ॥ पिप्पली पिप्पलीमूलं रजनी शिग्र कुष्ठकम् । सिन्धुनातं वचा हिड चूर्णितो गोमयान्वितः ॥ ६१६ ॥ योगोऽयं जाठरस्यानेः करिणां दीपनः परः । सामवायुं हिनस्त्याशु सामवातोद्भवा रुजः ॥ ६५७ ॥ सैन्धवं जीरकं दन्ती शृङ्गवेरं फलत्रयम् । करञ्जद्वितयं कृष्णा पटोलं निम्बपल्लवाः ॥ ६५८ ॥ ज्योतिष्मती गुडूची च वासा चेति सुचूर्णितः । पिण्डो मृदोहदं हन्ति वहिमाशु करोति च ॥ ६५९॥ . त्रिदः स्नुही दन्ती नीली लवणपञ्चकम् । ब्राह्मी च रेचनाः शूलकम्याध्मानविनाशनाः ॥ ६६० ॥ पाठा-पटोल-कुष्ठानि निम्बभूनिम्बपर्पटम् । ज्योतिष्मती स्नुही वासः चव्यग्रन्थिकशिकम् ।। ६६१ ॥ वचा-कट्फल-रोध्राणि चित्रकं बृहतीफले । तिक्ता दुरालभा रात्रिः करणं त्रिफला तथा ॥ ६६२ ॥
Aho ! Shrutgyanam