________________
मानसोल्लासः।
[विंशतिः२ पथ्यां गुडसमोपेतां पिचुमन्ददलान्विताम् । प्रदद्याद् रसपाकाथ जठराग्निप्रदीपनम् ॥ ६०७॥ चलत्यूर्ध्वमधो मुष्कं पीडां प्रकुरुते भृशम् । यस्मिन् भागे चलेन्मुष्कस्तेन पादेन लङ्गति ॥ ६०८ ॥ मुष्कसञ्चलनाचाली तस्य वच्मि चिकित्सितम् । तैलाभ्यङ्गः प्रकर्तव्यः स्वेदो धान्यसमुद्भवः ॥ ६०९॥ निर्वात स्थापयेदश्वमुष्णमन्नं प्रदापयेत् । उपाण्डजा च मोक्तव्या भिषजा तद्गता शिरा ॥६१० ॥ तथाप्यशान्तौ योक्तव्यो निरूहः सानुवासनः । चालिभागत्रिके कार्यमग्निकर्म विचक्षणैः ॥ ६११ ॥ शङ्कवत तिष्ठतः कर्णों नेत्रयोः परिवर्तनम् । स्तम्भस्सर्वेषु गात्रेषु भवेदुत्कर्णकेऽनिलात् ॥ ६१२ ॥ अभ्यङ्गो मर्दनं स्वेदः कर्तव्यश्च प्रयत्नतः । शङ्खयोर्मन्ययोः पुच्छे शिरावेधः प्रशस्यते ॥ ६१३ ॥ कर्णमूलात् स्कन्धपार्थात पृष्ठवंशस्य पार्श्वगे । त्रिकमध्यसमायाते रेखे स्थूरावधिस्थिते ॥ ६१४ ॥ कारयेत् तप्तलोहेन घृतेनाभ्यअनं व्यहम् । जलमुष्णं यवक्षारमिधे तैलेन पाययेत् ॥ ६१५ ॥ मन्ययोः स्तब्धता यस्य स्वेदादिस्तस्य पूर्ववत् । मन्यावंशे शिरावेध्ये नस्यं यत्नेन कारयेत् ।। ६१६ ॥ आमा शुण्ठी निशा रास्ना हिङ्ग कुष्ठ रसाधनम् । कणा प्रियङ्ग तच्चूर्ण रास्नाकाथेन भावनम् ॥ ६१७ ।।
Aho ! Shrutgyanam