________________
मध्यायः ३]
मानसोल्लासः। दाडिमं कृष्णलवणं सैन्धवं विडमेव च । सामुद्रं काचलवणं सर्वमेकत्र चूर्णयेत् ।। ५९५ ॥ पलमेकं प्रयुञ्जीत वातरोगे घृतान्वितम् । पित्तोद्भषेषु रोगेषु मधुशर्करयान्वितम् ॥ ५९६ ॥ कफजन्मसु रोगेषु दापयेत् मुरया समम् । आरनालयुतं दत्तं शूलाध्मानहरं परम् ॥ ५९७ ॥ युक्तं मांसरसेनैतद् वाजिनां पुष्टिवर्धनम् । उष्णोदकेन वा दत्तं सर्वरोगहरं परम् ॥ ५९८ ॥ श्लेष्मा समुत्कटोऽश्वानां नासारन्ध्रात् स्रवेद यदि । तदा सिंहाणको रोगस्तस्य वक्ष्ये चिकित्सितम् ॥ १९९ ।। तैलं सिद्धार्थकोद्भूतमजामूत्रविमिश्रितम् । सिंहीफलरसोन्मिश्रं नस्यं सिंहाणकापहम् ॥ ६०० ॥ शुण्ठी दुरालमा मुस्ता कचूर बृहतीद्वयम् । माहीं कर्करमही च वचा पुष्करपिप्पली ॥६०१॥ घृतेन मधुना वापि सितया च समन्वितम् । चूर्ण लेहे प्रयुञ्जीत कासहिकाविनाशनम् ॥ ६०२ ॥ रसाजीणे समुत्पन्ने सर्वगात्रं जहं भवेत् । क्लेशाद् यत् क्रमते वाजी तस्य वच्मि प्रतिक्रियाम् ॥ ६०१ ॥ रसातस्य प्रयोक्तव्यं लङ्घन लाघवावधि । कृष्णमृचिकया लिम्पेत् सर्वगात्राणि कोष्णया ॥६०४॥ शिरावेधा प्रकर्तव्यः प्रबले गागौरखे । उरसः पुरतो भागे पश्चाद्भाग उपाण्डजे ॥ ६०५ ॥ पूर्वपश्चिमकायस्य गौरखे चाधिके सति । शिरा सर्वाः प्रमोक्तव्या वंशोपाण्डगता अपि ॥ ६०६॥
Aho ! Shrutgyanam