________________
मानसोल्लासः।
[विंशतिः२ तथापि यदि नो सुस्थस्तदाऽभ्यङ्गं प्रयोजयेत् । सिद्धार्थलवणं व्योषयुजा तैलेन वाजिनः ॥ ५८३ ॥ कुक्षी च जठरं पृष्ठं स्वेदयेद् यत्नवान भिषक् । साकम्बलगूडेन सन्तप्तेनाश्मना मुहुः ॥ ५८४ ॥ तथापि यदि नो शाम्येत् तदा कुर्यान्निरूहणम् । चिश्चाफळकृतं कल्कं कामिकेन विमिश्रितम् ॥ ५८५ ॥ सिद्धार्थसैन्धवोपेतं कन्दर्पफलसंयुतम् । शतपुष्पासवोपेतं तिलतैलेन मिश्रितम् ॥ ५८६ ॥ निरूहणे नियुभीत तेन वायुः प्रशाम्यति । सुस्थात्मा जायते वाजी यदि नानेन कर्मणा ॥ ५८७ ॥ कुक्षिद्वये तदा तस्य तप्तलोहशलाकया। बिन्दवो बहवः कार्याः पद्वियसमाश्रिताः ॥ ५८८ ॥ तत्क्षणे जायते सुस्थो जठरं शिथिलं भवेत् । मनामसत्तिं भजते तुरगो नात्र संशयः ॥ ५८९ ॥ अन्ययुर्दापयेत् पानं पाचनं वह्निदीपनम् । एला मागधिका शुण्ठी तिक्तं लवणपञ्चकम् ॥ ५९० ॥ वचा चातिविषा हिङ्ग चूर्णमेतैः प्रकल्पितम् । पलार्द्ध सुरया युक्तं सुराप्यर्धाढकोन्मिता ॥ ५९१ ॥ क्रमोऽयं सर्वशूलानां शान्तये परिकीर्तितः । गुडेन सहितां शुण्ठी केवला वा प्रयोजयेत् ॥ ५९२ ॥ त्रिफला पिप्पलीमूलं ब्यूषणं जीरकद्वयम् । रामठं तिन्तिडीकं च यवानी गौरसर्पपाः ।। ५९३ ॥ अजमोदोऽश्वगन्धा च पटोलं चाम्लवेतसम् । त्रिनिम्बश्च मुस्ता च पर्पटं कटुरोहिणी ॥ ५९४ ॥
Aho ! Shrutgyanam