________________
अध्यापः ६]
मानसोल्लासः। दद्यात् प्रसादं भृत्यानां सोत्साहास्ते भवन्त्यतः । अलसानायुधैीनान् दण्डयेत् तान् महीपतिः ॥ ५७२ ॥
इति पदातिलक्षणम् ॥ सैन्धवैर्यवनोगतः काम्बोजप्रभवैरपि । शिक्षितैर्बहुभिर्वा है। संयुक्तं बलमुत्तमम् ॥ ५७३ ॥ साध्यन्ते तुरगैरेव दूरस्था अपि वैरिणः । लभ्यते तुरगैः कीर्तिर्यस्याश्वास्तस्य भूः स्थिरा ॥ ९७४ ॥ वाहिताः पोषिताः सम्यग्वाहाः कार्या महीभुना । अवाहिता न योग्यास्ते मार्ग सङ्ग्रामकर्मणि ॥ ५७५ ॥ दुर्वादियवसैरश्वान् खादनैश्चणकादिभिः । स्नेहघृतादिकैर्भोज्य रसैश्च परिपोषयेत् ॥ ५७६ ॥ प्रत्यहं वाहयेदवान् प्रातःकाले प्रयत्नतः । ततस्ते कर्मयोग्याः स्युर्विनोदे समरेऽध्वनि ॥ १७७ ॥ रूक्षाहारैरजीर्णन वाहनस्यातियोगतः । शीतातपपरिक्लेशैरश्वानां रोगसम्भवः ।। ५७८ ॥ तेषां चिकित्सितं कार्यमश्वायुर्वेदकोविदः । अविलम्बेन दातव्यमोप, रोगशान्तये ॥ ५७९ ॥ उत्यायोत्थाय विशति गात्रं सङ्कोचयत्यपि । आध्मातो विह्वलीभूतः शीर्प धारयते गुरु ॥ ५८० ॥ शकृत् त्यजति सामं च सशब्दं जठरानिलः । व्याधेः सुभिक्षवर्तस्य लक्ष्मैतत् परिकीर्तितम् ॥ ५८१ ॥ नवद्वारेषु निक्षिप्य शुण्ठीचूर्ण तुरङ्गमः । सञ्चार्यः शनकैस्तेन प्रकृति याति मारुतः ॥ ५८२ ॥
Aho! Shrutgyanam