________________
मानसीलासः।
[विंशतिः । समिधौ न च तत् कार्य विश्वसेन कदाचन । युद्धेषु पुरतः कार्य नृपैयुद्धविशारदैः ॥ ५६१ ॥ लोहचर्मविनिर्माणाः कार्पासरचिता अपि । शल्कैश्च घटिताः कार्याः सन्नाहाः सुदृढाः सदा ॥ १६२ ॥ बाहुत्राणैः शिरस्त्राणैरङ्गवाणैश्च संवृतम् । पताकाभिर्ध्वजैः स्तम्भैः शोभमानं भवेद् बलम् ॥ ५६३ ॥ धेरैर्वशैश्च काष्ठैश्च चर्मभिदृढबन्धनैः । वर्तुलानि विधेयानि वर्माणि बलगुप्तये ॥ ५६४ ॥ व्याघ्रचर्मपिनद्धानि शातकौम्भमयानि च । फलकानि विचित्राणि कारयेत् स्वबळे सदा ॥ १६५ ॥ मौले बले तु ये मुख्यास्तेषां कुर्वीत माननम् । रत्नैर्विभूषणैर्वखैः प्रियैर्वाक्यगनोहरैः ॥ ५६६ ॥ वृत्ति तेषां प्रकुर्वीत यथायोग्यं सुपुष्कलाम् । ग्रामेण ग्रामयुग्मेन ग्रामैर्वा हेमसञ्चयः ॥ १६७॥ भृत्यानां वेतनं दद्याद् यथाकालमतन्द्रितः । प्रत्यहं प्रतिमासं वा मासत्रयमथापि वा ॥ ५६८ ॥ चतुर्मासोदितं वाऽपि मासपदकमथापि वा। संवत्सरमितं वाऽपि कार्यापेक्षितया नृपः ॥ ५६९ ॥ प्रत्यहं वीक्षणं कार्यमलुब्धैरात्मपूरुषैः । पक्षे पक्षे स्वयं पश्येद् वेतनैर्विधृतान् भटान् ॥ ५७० ॥ कृतश्रमान् सदोत्साहान रणोचितधृतायुधान् । जितश्रमाणां शूराणां सायुधानां नरेश्वरः ॥ ५७१ ।।
Aho! Shrutgyanam