________________
अध्यायः ६
मानसोल्लासः। दुर्गे यन्त्राणि कार्याणि नाना प्रहरणानि च । दुर्गद्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ ५५० ॥ सञ्चयश्चात्र सर्वेषामायुधानां विधीयते । अश्मनां च प्रभूतानां सिकतानां तथैव च ॥ १५१॥ कुद्दालरज्जुवेत्राणां पिटकानां तथैव च । सर्वेषां शिल्पभाण्डानां तत्र सञ्चय इष्यते ॥ ५५२ ॥
औषधानां च सर्वेषां वादित्राणां तथैव च । यवसानां प्रभूतानामिन्धनानां च सञ्चयः ॥ ५५३ ॥ गुडस्य सर्वतैलानां घृतस्य मधुनस्तथा। तथा च सर्वधान्यानां पशुगोमययोरपि ॥ ५९४ ॥ कुम्भेष्वाशीविषा धार्या व्याघ्रा सिंहाश्च बन्धनैः । अन्यानि सर्ववस्तूनि दुर्गे सचिनुयान्नृपः ॥ ५५५ ॥
इति दुर्गाध्यायः ॥५॥ मौलं भृत्यं तथा मैत्रं श्रेणमाटविकं बलम् । अमित्रमपरं षष्ठं सप्तमं नोपलभ्यते ॥ १५६ ॥
वंशक्रमागतं मौलं भृत्यं द्रविणदानतः । मैत्रीकरणतो मैत्रं श्रेष्ठमेतद् वलत्रयम् ॥ ५५७ ॥ सम्बद्धं जन्मकर्मभ्यां निश्चित समयैश्च यत् । तद् बलं श्रेणमाख्यातं तच्च मध्यममिष्यते ॥ १५८ ॥ पर्वतोपान्तसंवासिनिषादम्लेच्छजातिकम् । अधमं तत् समाख्यातं बलमाटविकं बुधैः ॥ १५९ ॥ शात्रवास्तु समाक्रान्ता दासभावमुपस्थिताः। तेषां बलं तु विज्ञेयममित्रजबलं बुधैः ॥ १६०॥
Aho ! Shrutgyanam