________________
७४
मानसोल्लासः ।
ferreसमाभासा वैणवीपुष्यसन्निभा लवणी पुष्पसङ्काशा नीलेन्दीवरसप्रभा ॥ ५०१ ॥
[विंशतिः २
अतसीपुष्पसङ्काशा चाषपक्षसमद्युतिः । कृष्णाद्रिकर्णिका पुष्प समानद्युतिधारिणी ।। ५०२ ॥
मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा । विष्णुदेवसमाभासा भृङ्गपक्षसमप्रभा ॥ ५०३ ॥
दोषैस्त्यक्तो गुणैर्युक्त इन्द्रनीलो महामणिः । यस्य हस्ते भवेत् तस्य वित्तमायुर्बलं यशः ॥ ५०४ ॥
क्षीरमध्ये क्षिपेन्नीलं दुग्धं चेन्नीलतां व्रजेत् । इन्द्रनीलः स विज्ञेयो रविनन्दनवल्लभः || ५०५ ॥
इन्द्रनीले धृते सौरिः प्रसन्नः सततं भवेत् । आयुश्च महतीं लक्ष्मीमारोग्यं च प्रयच्छति ॥ ५०६ ॥
इतीइन्द्रनीलपरीक्षा ॥
तुरुष्कविषयेऽम्भोधेः समीपे विषमस्थले । भवेन्मरकतं रत्नं गुणो दोषोऽस्य कथ्यते ॥ ५०७ ॥
दोषाः सप्त भवन्त्यस्य गुणः पञ्चविधः स्मृतः । भवेदविधा च्छाया मणेर्मरकतस्य हि ॥ २०८ ॥
अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्मिन् धृते भवेत् । विस्फोटं स्यात् सपिटकं तत्र शस्त्रहतिर्धृते ॥ ५०९ ॥
सपाषाणे भवेद् बन्धुनाशो मरकते धृते । विच्छायं मलिनं प्राहुर्बाधिर्ये तेन जायते ॥ ५९० ॥
कर्करं शर्करायुक्तं पुत्रशोकमदं धृतम् । जठरं कान्तिहीनं स्याद् दंष्ट्रिवह्निभयावहम् ।। ५११ ॥
Aho ! Shrutgyanam)