________________
अध्याय
मानसोल्लासः। कल्माषवर्ण शबलं ततो मृत्युभयं भवेत् । इति दोषाः समाख्याता वर्ण्यन्ते साम्प्रतं गुणाः ॥५१२॥ निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुतम् । स्निग्धं रौक्ष्यविनिर्मुक्तमरजस्कमरेणुकम् ॥ ५१३ ॥ मुरागं रागबहुमिति पश्च गुणाः स्मृताः। एतैर्युक्तं मरकतं सर्वपापभयापहम् ॥ ५१४ ॥ बहिपिच्छसमाभासा चापपक्षसमा परा। हरिकाचनिभा चान्या तथा सेवालसनिमा ॥ ५१५॥ खद्योतपृष्ठसङ्काशा बालकीरगरुत्समा । नवशालसच्छाया शिरीषकुसुमोपमा ॥ ५१६ ॥ एवमष्टौ समाख्याताश्छाया मरकताश्रयाः। छायाभिर्युक्तमेताभिः श्रेष्ठं मरकतं भवेत् ॥ ५१७ ॥ सेवालवल्लरीच्छायं सुरङ्ग त्रासवर्जितम् । अनयं तं मरकतं माहुः सर्वविषापहम् ॥ ५१८ ।।
इति मरकतपरीक्षा । हिमालये सिंहले च विन्ध्ये तापीतटे तथा। स्फटिकं जायते रत्नं नानारूपमनोहरम् ॥ ५१९ ॥ . हिमाद्रौ चन्द्रसङ्काशं स्वच्छ कान्तियुतं भवेत् । सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथा परम् ॥ ५२० ॥ सूर्याशुस्पर्शमात्रेण व िवमति तत्क्षणात् । सूर्यकान्तं तदाख्यातं स्फटिकं रनवेदिभिः ॥ ५२१ ॥ पूर्णेन्दुकरसंस्पर्शादमृतं क्षरति क्षणात् । चन्द्रकान्तं तदाख्यातं दुर्लभं स्यात् कलौ युगे ॥ ५२१ ॥
Aho ! Shrutgyanam