________________
अध्यायः ४]
मानसालासः। चतुर्दशात् समारभ्य दशसख्यावधि क्रमात् । कलशस्य समानत्वात् मौक्तिकं मध्यमं स्मृतम् ।। ४६७ ॥ आरभ्य विशतितमात् क्रमात् पञ्चदशावधि । लव्यस्ताः कथिता मुक्ता मूल्यं च तदनुक्रमात् ।। ४६८ ॥ अतः परं च सूक्ष्माणि मौक्तिकानि प्रचक्षते । तोळने क्रम एष स्यान्मूल्ये चापि निरूपितः ॥ ४६९ ॥ सूक्ष्माणां स्वल्पकं मूल्यं लघूना लघुमूल्यकम् । मध्यानां मध्यमं मूल्यं गुरूणां बहुमूल्यता ॥ ४७० ॥ कलअद्वयमानेन योकं मौक्तिकं भवेत् । न धार्य नरनाथस्तद् देवयोग्यमनुत्तमम् ॥ ४७१ ॥ उत्पत्तिराकरश्छाया गुणदोषाः शुभाशुभम् । तोलनं मूल्यविन्यासः कथितः सोमभूभुना ॥ ४७२ ॥
इति मौक्तिकतोलन-मूल्यविन्यासः ॥ सिन्धौ गवणगङ्गायां सिंहले जन्म कीर्तितम् । क्षेत्राणि तत्र चत्वारि माणिक्यस्य बुधा जगुः ।। ४७३ ॥ सिंहलं प्रथम क्षेत्रं तत्र कालपुरं परम् । अन्धं तृतीयमादिष्टं चतुर्थ तुम्बरं स्मृतम् ॥ ४७४ ॥ सिंहले तु भवेद् रक्तं पद्मरागमनुत्तमम् । पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ ४७५ ।। अशोकपल्लवच्छायमन्ध्रे सौगन्धिकं विदुः । तुम्बरच्छायया नीलं नीलगन्धि प्रकीर्तितम् ॥ ४७६ ॥ उत्तम सिंहलोद्भूनं निकृष्टं तुम्बरोद्भवम् । मध्ययोर्मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः ॥ ४७७ ॥
Aho ! Shrutgyanam