________________
५०१
महाविद्याविडम्बनम् । साधयितुं न शक्यते । तस्माच्छब्दनिष्ठस्य शब्दत्वादेरत्यन्ताभावो घटे साध्यते । शब्दत्वादिधर्मस्य चानित्यनिष्ठत्वं तदैव स्यात्, यदि शब्दोऽनित्यःस्यादिति शब्दानित्यत्वसिद्धिः । एतद्धटपक्षीकृतशब्दान्यान्यानित्यनिष्ठस्य घटत्वादेरत्यन्ताभावः पक्षातिरिक्ते सर्वत्रास्तीति व्याप्तिसिद्धिरिति ॥२॥
३ अयं घटः एतद्धटपक्षीकृतशब्दान्यान्यानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ इहापि यदि पक्षीकृतः शब्दः अनित्यः स्यात्, तेह्येव पक्षीकृतशब्दनिष्ठात्यन्ताभावप्रतियोगिनं घटनिष्ठधर्ममुपादाय प्रकृतप्रतिज्ञार्थपर्यवसानं स्यादिति शब्दानित्यत्वसिद्धिः ॥३॥
३ (भुवन०)-अथानन्तरमहाविद्यामेवात्यन्ताभावाधिकरणस्थाने ऽत्यन्ताभावप्रतियोग्यधिकरणग्रहणेन भङ्गयन्तरेण दर्शयति-अयं घट इत्यादि । एतद्घटपक्षीकृतशब्दान्यान्यानित्यनिष्ठश्चासौ अत्यन्ताभावश्च । तस्य प्रतियोगी घटत्वादियों धर्मः तदाधारो घट इत्यर्थः । अत्रानित्यघटनिष्टस्यात्यन्ताभावस्य प्रतियोगिनः सकलपदार्थधर्माः पटत्वाकाशत्वादयस्तेषामधिकरणं घट इति व्याघातः स्यात् । तस्मादनित्यशब्दनिष्ठो यः अत्यन्ताभावस्तस्य प्रतियोगिनो ये घटत्वादयस्तेषामधिकरणं घट इति भावः । अत्रापि अनित्यनिष्ठोऽत्यन्ताभावस्तदैव स्यात् , यदि शब्दस्यानित्यत्वमङ्गीक्रियते । तस्माच्छब्दानित्यत्वसिद्धिः। घटनिष्ठस्यात्यन्ताभावस्य प्रतियोगिनं गगनैकत्वादिकं धर्म स्वस्वनिष्ठमुपादाय सर्वत्र गगनादौ व्याप्तिसिद्धिज्ञेयेति । अत्र ग्रन्थकृदनित्यत्वसिद्धिमाहइहापि यदीत्यादि ॥३॥
__४ अयं घटः एतद्धटनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ अत्र चैतद्धटनिष्ठात्यन्ताभावैतच्छन्दनिष्ठास्यन्ताभावौ विवक्षितौ । पूर्वमहाविद्यायां चैतद्धटैतच्छब्दान्योन्याभावाविति महान्भेदः । एवं वक्ष्यमाणमहाविद्ययोः प्राचीनमहाविद्याभ्यां भेदो द्रष्टव्यः । शेषं पूर्ववत् ॥ ४॥ ____४ (भुवन०)-आद्यमहाविद्यामेव भङ्गयन्तरेणाह-अयं घट एतद्धटनिष्ठात्यन्ताभावैतच्छब्देत्यादि । एतद्धटनिष्ठस्य घटवादेर्धर्मस्य अत्यन्ताभावश्च एतच्छब्दनिष्ठस्य शब्दत्वादेरत्यन्ताभावश्च एतद्धटनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभावौ । तौ विद्यते यस्य स एतद्धटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभावान् । तस्य भावस्तत्त्वम् । तेन रहितश्चासावनित्यश्च तस्मादन्य इत्यर्थः । अयमाशयः । एतद्बटनिष्ठा रान्ता दैतच्छब्दनिष्ठात्यन्ताभाववदेतद्वयव्यतिरिक्तं विश्वम् । तत्त्वरहितोऽनित्य एतद्धटो वा, एतच्छब्दो वा । तत्राद्यान्यत्वं पक्षे व्याहतमिति सपक्षोपयोगि तज्ज्ञेयम् । द्वितीयान्यत्वं च सिध्यच्छब्दस्यानित्यत्वं गमयतीति भावः । आद्यमहाविद्यातोऽस्या भेदमाहअत्र चैतद्धटनिष्ठेत्यादि । पूर्वमहाविद्यायामिति । आद्यमहाविद्यायामित्यर्थः । अन्योन्याभावाविति । अन्यान्यशब्दाभ्यामुपात्ताविति । एवं वक्ष्यमाणमहाविद्ययोरिति । पञ्चमीषष्ठयोः । प्राचीनमहाविद्याभ्यां द्वितीयतृतीयाभ्यामित्यर्थः ।। ४ ॥ १ तर्हि ५ इति घ पुस्तकपाठः । ६ महाविद्या
Aho ! Shrutgyanam