________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं ५ अयं घटः एतद्धनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ अनित्यनिष्ठस्य अत्यन्ताभावः अनित्यनिष्ठात्यन्ताभावः ॥ ५॥
५ (भुवन०)-अथ पूर्ववदेव भङ्गयन्तरमाह-अयं घट एतद्धटनिष्ठेत्यादि । एतद्बटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभाववत्त्वरहितश्चासौ अनित्यश्च स तथा । तन्निष्ठस्य शब्दत्वादेयोऽत्यन्ताभावस्तदाश्रयो घट इत्यर्थः । उक्तात्यन्ताभाववत्त्वरहितावेतद्बटैतच्छब्दो तयोरन्यतरानित्यः उभयप्रसिद्धो घटः । तनिष्ठस्य घटत्वादेरत्यन्ताभावः पक्षादन्यत्र सर्वत्रास्तीति व्याप्तिसिद्धिः । घटे त्वनित्यशब्दनिष्ठस्य शब्दत्वादेरत्यन्ताभावः सिध्यन्ननित्यत्वं शब्दे साधयेदिति भावः । अत्र कर्मधारयं प्रतिषेद्धमाह-अनित्यनिष्ठस्यात्यन्ताभाव इत्यादि ॥५॥
६ अयं घटः एतद्धटनिष्ठात्यन्ताभावैतच्छन्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ अनित्यनिष्ठश्चासौ अत्यन्ताभावश्च ॥६॥
६ (भुवन०)-अथ पूर्वप्रकारान्तरेण महाविद्यान्तरमाह-अयं घट इत्यादि । यथोक्तात्यन्ताभाववत्त्वरहितानित्यनिष्ठश्वासौ अत्यन्ताभावश्च, तस्य यः प्रतियोगी घटत्वादिस्तदधिकरणं घट इत्यर्थः। यथोक्ताऽनित्य एतद्धटो वा तच्छब्दो वा । तत्रैतद्धटनिष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगिनो ये विश्वनिष्ठा धर्माः पटत्वाकाशशब्दत्वादयस्तेषामधिकरणं घट इति व्याघातः । तस्मादेतच्छब्दरूपो योऽनित्यस्तन्निष्ठो योऽत्यन्ताभावः तत्प्रतियोगिनो ये घटत्वादयस्तदधिकरणं घट इत्यर्थः । व्याप्तिस्तु तत्तन्निष्ठात्मत्वाकाशत्वादिभिर्यथोक्तविशेषणोपपन्नैः पक्षादतिरिक्ते सर्वत्रापि क्षेया । तत्पुरुषसमासं व्यावर्त्तयति-अनित्यनिष्ठश्वासावत्यन्ताभावश्चेति ॥ ६॥
७ अयं घटः एतद्धटान्योन्याभावैतच्छद्वनिष्ठात्यन्ताभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ एतद्धटान्यत्ववदेतच्छब्दनिष्ठात्यन्ताभावोऽप्येतच्छन्दव्यतिरिक्तसकलनिष्ठ एव । एतच्छब्दमात्रनिष्ठानां तदन्यत्रासंभवात् । तेन न कश्चित्क्षुद्रोपद्रवः । इयं चैतद्धटान्योन्याभावैतच्छब्दनिष्ठात्यन्ताभावावुपादाय प्रवृत्ता । प्रथमा चैतद्धटान्योन्याभावैतच्छब्दान्योन्याभावावुपादाय । चतुर्थी चैतद्धटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभावावुपादाय । तेन प्रथमचतुर्थमहाविद्याभ्यामेतस्या महान्भेदो द्रष्टव्यः ॥७॥
७ (भुक्न०)-चतुर्थ्यादिमहाविद्यात्रयमेवैतद्धटनिष्ठात्यन्ताभावपदस्थाने एतद्धदान्योन्याभास्पदग्रहणेन प्राह-अयंघटः एतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभाववत्वरहितानित्यान्यः इति । एतद्घटान्योन्याभावश्च एतच्छब्दनिष्ठस्यात्यन्ताभावश्च, एतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभावौ । तद्वत्त्वरहितो योऽनित्यस्तस्मादन्यो भिन्न इत्यर्थः । एतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभाववस्वरहितो एतद्धटैतच्छब्दौ । तयोरन्यतरैतद्धटान्यत्वं सर्वत्रास्तीति व्याप्तिसिद्धिः । घट
Aho ! Shrutgyanam