________________
प०१
महाविद्याविडम्बनम् ।
स्यानित्यशब्दादन्यत्वं च सिध्यदनित्यत्वं शब्दे गमयेदिति भावः । एतद्धदान्यत्ववदिति । यथैतद्धटान्योन्याभावः एतद्घटादन्यत्र सर्वत्रास्ति, तथा एतच्छब्दनिष्ठानां शब्दत्वादिधर्माणां योऽत्यन्ताभावः सोऽप्येतच्छब्दव्यतिरिक्तसकलवस्तुनिष्ठः एवेत्यर्थः । तदन्यत्रेति । एतच्छब्दादन्यत्र । सर्वपदार्थेष्वसंभवात् । तेन हेतुनैतद्धदान्योन्याभाव एतहटादन्यत्र सर्वत्र नास्ति । शब्दनिष्ठधर्मात्यन्ताभावस्तु सर्वत्र नास्तीत्यादिः क्षुद्रोपद्रवः कश्चिन्नाशयः । प्रथमचतुर्थेमहाविद्याभ्यामस्या भेदमाहइयं चैतदित्यादि ॥७॥
८ अयं घटः एतद्धदान्योन्याभावैतच्छब्दनिष्ठास्यन्ताभाववस्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥८॥
८ (भुवन०)-अयं घट एतद्धटान्योन्याभावैतदित्यादि । एतटस्यान्योन्याभाव एतच्छन्दनिष्ठस्य धर्मस्यात्यन्ताभावश्च । तद्वदेतद्वयव्यतिरिक्त विश्वं, तद्वत्त्वरहितौ अनित्यौ एतौ द्वावेक । तत्र घटे निष्ठा घटत्वादयः, शब्दे निष्ठाश्च शब्दत्वादयः । तत्र घटत्वात्यन्ताभाववान्घट इति व्याहतम् । तस्मादनित्यशब्दनिष्ठस्य शब्दत्वादेरत्यन्ताभाववान्घटः । तथा च शब्दस्यानित्यत्वसिद्धिः प्रकटैवेत्यर्थः ॥ ८ ॥
९ अयं घटः एतद्धटान्योन्याभावैतच्छब्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति । एतयोश्च प्राचीनाभ्यां पूर्ववन्महान्भेदः ॥९॥ __९ (भुवन०)-अयं घटः एतद्घटान्योन्याभावेत्यादि । एतद्घटान्योन्याभावतच्छब्दनिष्ठात्यन्ताभाववत्त्वरहितानित्यनिष्ठश्वासावत्यन्ताभावश्च, तस्य प्रतियोगिनो ये धर्मा घटत्वादयस्तदधिकरणं घट इत्यर्थः । शेषं पूर्ववदेव । एतयोश्चेति । एतस्या अनन्तरोक्तमहाविद्यायाश्च प्राचीनाभ्यां पञ्चमीषष्ठीभ्यां महान्भेदो ज्ञातव्यः । यतः एतद्धटनिष्ठात्यन्ताभावैतच्छब्दनिष्ठात्यन्ताभावो आदाय ते महाविद्ये प्रवृत्ते । एते त्वेतद्भुटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभावाकुपादाय चेत्यर्थः।।
१० अयं घटः एतद्धनिष्ठात्यन्ताभावैतच्छब्दान्योन्याभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ इयं चैतद्धनिष्ठात्यन्ताभावैतच्छन्दान्योन्याभावावुपादाय प्रवृत्ता । सप्तमी त्वेतद्धटान्योन्याभावैतच्छब्दनिष्ठात्यन्ताभावावुपादाय । तेनैतयोर्महान्भेदः । एवं वक्ष्यमाणयोरपि प्राचीनाभ्यां महान्भेदः ॥१०॥
१० (भुवन०)-अथ सप्तम्यादिमहाविद्यात्रयमेव भङ्गयन्तरेणाह-अयं घट इत्यादि । एतद्धटनिष्ठस्य अत्यन्ताभाव इति विग्रहः । सप्तमीमहाविद्यातोऽस्या भेदमाह-इयं चेति । वक्ष्यमाणयोरिति । एकादशीद्वादश्योः । प्राचीनाभ्यामिति । अष्टमीनवमीभ्यामित्यर्थः । शेषं पूर्ववत् ॥ १०॥
११ अयं घटः एतद्धटनिष्ठात्यन्ताभावैतच्छब्दान्योन्याभाववस्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ ११ ॥
Aho! Shrutgyanam