________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं ११ (भुवन०)-अयं घटः एतद्धटेत्यादि । एतद्धटनिष्ठात्यन्ताभावैतच्छब्दान्योन्याभाववत्त्वरहितो योऽनित्यः शब्दादिस्तन्निष्ठा ये शब्दत्वादयस्तेषामत्यन्ताभाववान्घट इत्यर्थः ।। - १२ अयं घटः एतद्धटनिष्ठात्यन्ताभावैतच्छन्दान्योन्याभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ १२॥
१२ (भुवन०)-अयं घट इत्यादि । एतद्धटनिष्ठस्य घटत्वादेरत्यन्ताभावः एतद्भुटनिष्ठात्यन्ताभावः । एतद्धनिष्ठात्यन्ताभावैतच्छब्दान्योन्याभाववत्त्वरहिदो योऽनित्यः शब्दादिस्तन्निष्ठो योऽत्यन्ताभावस्तस्य यः प्रतियोगी घटत्वादिस्तदधिकरणं घट इत्यर्थः ॥ १२ ॥
१३ अयं घटः एतद्धटान्यशब्दत्वात्यन्ताभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ इयं चैतद्धटान्योन्याभावपक्षतत्तुल्यमात्रनिष्ठशब्दत्वात्यन्ताभावावुपादाय प्रवृत्ता पक्षतत्तुल्यान्यतमे यत्र कुत्रापि शब्देऽनित्यत्वं गमयति । सप्तमी त्वेतद्धटान्योन्याभावैतच्छन्दनिष्ठात्यन्ताभावावुपादाय प्रवृत्ता निष्कृष्यतस्मिन्शब्देऽनित्यत्वं गमयति । तेनैतयोर्महान्भेदः । एवमुत्तरयोरपि प्राचीनाभ्यां महान्भेदः॥१३॥
१३ (भुवन० )-पुनरपि सप्तम्यादिमहाविद्या एवाष्टादशयावत्किञ्चिद्भेदेनाह-अयं घट एतद्धटान्येत्यादि । शब्दत्वस्य अत्यन्ताभावः शब्दत्वात्यन्ताभावः । स विद्यते येषु ते शब्दत्वात्यन्ताभाववन्तः, शब्दव्यतिरिक्ताः सर्वे पदार्थाः। ततो विशेषणविशेष्यकर्मधारयः । एतद्धटान्ये च ते शब्दत्वात्यन्ताभाववन्तश्च, एतद्घटान्यशब्दत्वात्यन्ताभाववन्तः । तदभावस्तद्वत्त्वं । तेन रहितश्चासौ अनित्यश्चैतद्धटो वा शब्दो वा । तस्मादन्यो घट इत्यर्थः । तत्र घटो घटादन्यो न संभवति । तस्मादनित्यशब्दादन्यो घट इति भावः । सप्तमीमहाविद्यातोऽस्या भेदमाह-इयं चैतद्धटान्योन्याभावपक्षतत्तुल्यमात्रेति । पक्षो मूलानुमानापेक्षया पक्षीकृतो विवक्षितः कश्चिच्छब्दस्तत्तुल्याः । पक्षतुल्या जगन्निष्ठा अपरे शब्दास्तदुभयनिष्ठं यच्छब्दत्वं तदत्यन्ताभावमुपादाय इयं प्रवृत्ता सती पक्षतत्तुल्यानां मध्येऽन्यतरस्मिन्यत्र कुत्रापि शब्देऽनित्यत्वं साधयति । सप्तमी त्वेतच्छब्देति भणनात्सर्वशब्दमध्यादेकं शब्द । निष्कृष्येति । पृथक् कृत्य । एतस्मिन्निति । विवक्षिते शब्देऽनित्यत्वं गम. यतीति तेनैतयोर्महान्भेदो ज्ञातव्यः। एवमुत्तरयोरपीति । चतुर्दशीपञ्चदश्योर्महाविद्ययोः । प्राचीनाभ्यामिति । अष्टमीनवमीरूपाभ्यामित्यर्थः ॥ १३ ॥
१४ अयं घटः एतद्धटान्यशब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ १४ ॥
१४ (भुवन०)-अयं घट एतद्धटान्येत्यादि । एतद्धटादन्ये ये शब्दत्वात्यन्ताभाववन्तो विश्वपदार्थाः तद्वत्त्वरहितानित्यो घटो वा, शब्दो वा । तन्निष्ठा धर्मा घटत्वादयो वा शब्दत्वादयो वा । तेषामत्यन्ताभाववान्घटः साध्यते । तत्र घटत्वात्यन्ताभाववान्घट' इति साधने व्याघातः। तस्मा
१ प्रदत्ता यत्र इति ज पुस्तकपाठः । २ भावप्रतियोग्यधिक इति घ पुस्तकपाठः ।
Aho! Shrutgyanam