________________
४५
प०१
महाविद्याविडम्बनम् । च्छब्दत्वाद्यत्यन्ताभाववान्घटः प्रसिध्यति । शब्दत्वादि चानित्यनिष्ठं तदैव स्यात् , यदि शब्दोऽनित्यः स्यादिति शब्दानित्यत्वसिद्धिः ॥ १४ ॥
१५ अयं घटः एतद्धटान्यशब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्धटान्यस्मिन् शब्दत्वात्यन्ताभाववति एतद्धटान्यशब्दत्वात्यन्ताभाववत्त्वं धर्मः । तद्रहितत्वमुपादायैतन्महाविद्यात्रयम् ॥ १५॥
१५ ( भुवन० )-अयं घटः एतद्धटान्यति । एतद्घटान्ये ये शब्दत्वात्यन्ताभाववन्तोऽत्यन्ताभाववन्तो विश्वपदार्थास्तद्वत्त्वरहिताऽनित्यः साध्यपक्षे शब्दे एव, तनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगिनो ये घटत्वादयो धर्माः, तदधिकरणं घट इति भावार्थः । एतन्महाविद्यात्रयोपयोगिनं धर्म दर्शयति-एतद्धटान्यस्मिन्नित्यादि ॥ १५ ॥
१६ अयं घटः एतद्धटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभाववत्त्वरहितानित्यान्यः मेयत्वादिति ॥ १६॥
१६ ( भुवन०)-अयं घटः एतद्धटनिष्ठात्यन्ताभावेत्यादि । एतद्बटनिष्ठस्य अत्यन्ताभा. वश्च । तद्वत्त्वरहितो योऽनित्यो दृष्टान्तधर्मपक्षे एतद्भुट एव । साध्यधर्मपक्षे तु शब्द एव । तस्मादन्यो घट इत्यर्थः ।। १६ ॥
१७ अयं घटः एतद्धटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभाववत्वरहितानित्यनिष्ठात्यन्ताभावाधिकरणं मेयत्वादिति ॥ १७॥
१७ (भुवन०)-अयं घटः एतद्धटनिष्ठात्यन्ताभावेत्यादि । एतद्बटनिष्ठस्य घटत्वादेरत्यन्ताभावश्च शब्दत्वस्यात्यन्ताभावश्च । तौ विद्यते येषां ते तथा । तद्वत्त्वरहितानित्यौ एतौ द्वावेव । तनिष्ठा ये धर्मास्तेषां योऽत्यन्ताभावस्तदधिकरणं घदः । अत्रानित्यशब्दनिष्ठशब्दत्वात्यन्ताभाववान्घट इति परमार्थः ॥ १७ ॥
१८ अयं घटः एतद्धटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभाववत्त्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति॥ एतद्धटनिष्ठस्य अत्यन्ताभावश्च शब्दत्वात्यन्ताभावश्च एतद्धटनिष्ठात्यन्ताभावशब्दत्वात्यन्ताभावौ । तदुभयरहितत्वं प्रकृतमहाविद्यात्रयोपयोगि ॥ १८॥
१८ ( भुवन० )-अयं घटः इत्यादि। एतद्धटनिष्ठस्यात्यन्ताभावश्च शब्दत्वात्यन्ताभावश्च । तद्वत्त्वरहितानित्यनिष्ठश्चासौ अत्यन्ताभावश्च । तस्य प्रतियोगिनो ये घटत्वादयो धर्मास्तेषामधिकरणं घट इत्याशयः। एतन्महाविद्यात्रयसंबन्धिनं धर्ममतिदिशति-एतद्धटनिष्ठस्यात्यन्ताभाव इत्यादि । पाश्चात्यमहाविद्यात्रयमेतद्घटान्योन्याभावमुपादाय प्रवृत्तम् । एतन्महाविद्यात्रयं त्वेतद्धटनिष्ठात्यन्ताभावमुपादायेति स्फुट एव भेदः ॥१८॥
१ भावरहि इति घ पुस्तकपाठः । २ भयवत्वरहि इतिज पुस्तकपाठः।
Aho! Shrutgyanam