________________
आनन्दपूर्ण - श्री भुवनसुन्दरसूरिकृतटीकायुतं
१९ अयं घटः एतद्धरनित्यनिष्ठत्वरहितैतच्छब्दनिष्ठाधिकरणं मेयत्वादिति ॥ एतस्मिन्घटे नित्ये च ये वर्तन्ते तेषु एतद्धदनित्यनिष्ठत्वं धर्मः । तद्रहितश्चैतद्धनिष्ठत्वरहितो वा, नित्यनिष्ठत्वरहितो वा । आद्यः पक्षे व्याहतः । नित्यनिष्ठत्वरहितस्तु पक्षीकृतशब्दनिष्ठस्तव स्याद्यदि पक्षीकृतः शब्दो नित्यो न भवेत् । पक्षीकृतशब्दनित्यत्वे तन्निष्ठस्य नित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेः । तेन नित्यनिष्ठत्वरहितः पक्षीकृतशब्दनिष्ठो घटे सिध्यन् पक्षीकृतशब्दनित्यत्वमन्तर्भाव्य सिध्यतीति । एतद्धरनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते घटत्वादिना शब्दनित्यत्वेऽप्युपपद्यमानेन एतद्वनिष्ठेन अर्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छन्दनिष्ठग्रहणम् । एतच्छब्दनिष्ठाधिकरणमित्युक्ते शब्दनित्यत्वेऽप्युपपद्यमानैर्मेयत्वादिभिरेतद्धटनिष्ठैरर्थान्तरता स्यात् । तन्नि वृत्यर्थमेतद्भट नित्यनिष्ठत्वरहितग्रहणम् । नित्यनिष्ठत्व रहितैतच्छन्दनिष्ठाधिकरणमित्युक्ते नित्यपदार्थेषु साध्याभावः । तन्निवृत्त्यर्थमेतद्धदग्रहणम् । यद्यपि नित्यपदार्थेषु नित्यवृत्तित्वरहितो नास्ति, तथाप्येतद्धरनित्यनिष्ठत्वरहितः एतद्वदान्योन्याभावः एतच्छब्दनिष्ठोऽस्त्येवेति नित्यपदार्थेषु साध्यानुगमसिद्धि: ॥ १९ ॥
४६
---
१९ ( आनं० ) — xx धिकरणमित्युक्ते व्यात्यसिद्धिर्नित्येषु तदसम्भवादत उक्तम्नित्यनिष्ठत्वरहितेति । घटान्तरप्रवृत्तिरहितेन स्वमात्रनिष्ठधर्मेणार्थान्तरत्वं निवर्तयति — एतदिति । एतद्भट नित्यनिष्ठत्वरहित एतदवृत्तिर्वा नित्यवृत्तिरहितो वा । आद्यः पक्षे व्याहतः, द्वितीयस्तु शब्दनिष्ठो धर्मः पक्षे सिध्यन्ननित्यत्वं शब्दस्य भावयेदिति भावः । व्याकरोति - एतद्वट इति । विशेषणकृत्यमाह — घटत्वादिनेति ॥
1
१९ ( भुवन० ) अथाभिनवप्रकारेण महाविद्यान्तराणि प्राह-अयं घटः एतद्धट नित्यनित्वेत्यादि । एतद्वच नित्याच एतदनित्याः । तेषु निष्ठा येषां ते एतद्भटनित्य निष्ठास्तेषां भावस्तत्वं । तेन रहितश्चासावेतच्छन्दनिष्ठश्च तस्याधिकरणं घट इत्यर्थः । अत्र साध्यो धर्मो विश्वप्रतियोगिको घटशब्दान्योन्याभाव: । दृष्टान्तधर्मस्तु पक्षान्योन्याभावः सर्वत्र द्रष्टव्यः । अथैतां महाविद्यां व्याचरीकरोति - एतस्मिन्नित्यादि । अथान्त्यविशेषणं विमुच्य व्यावृत्तिचिन्तां करोतिएतद्घटनित्यनिष्टत्वरहितेत्यादि । घटत्वादिनेति । घटत्वादिना यथोक्तयुगलावृत्तित्वान्नित्येष्ववर्तमानेन घटे च वर्तमानेन शब्दस्य नित्यत्वेऽपि साध्ये उपपद्यमानेनार्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छब्दनिष्ठेति पदग्रहणम् । अथाद्यविशेषणं परित्यज्य व्यावृत्ति चिन्तयति — एतच्छन्द निष्ठेत्यादि ।
१ freed frइति ग पुस्तकपाठः । २ शब्दस्यानित्य इति ज पुस्तकपाठः । ३ आनन्दपूर्णकृता टीका आदर्शपुस्तके त्रुट्यनन्तरं पुनरित भारभ्य लब्धा ।
Aho! Shrutgyanam