________________
प०१
महाविद्याविडम्बनम् । दित्यादि । अयं पक्षनिष्ठत्वादिधर्मो नाप्यभावः नाप्यभावरूपः । अयं घटादेराकाशादेोऽभाव इत्येवं प्रतियोगिविशेषस्य अभावसंबन्धिनोऽनिरूपणादित्यर्थः । द्वितीयं विकल्पमङ्गीकृत्य नोदकोक्तं परिहरति-न द्रव्यादिषड्लक्षणानामित्यादि । द्रव्यादयो ये षट्पदार्था द्रव्यगुणकर्मसामान्यविशेषसमवायाख्या वैशेषिकमतप्रसिद्धाः तेषां यानि षड्लक्षणानि १ " गुणाश्रयो द्रव्यम् , " २ " कर्मातिरिक्तो जातिमात्राश्रयो गुणः, " ३ " संयोगविभागाजन्यसंयोगविभागासमवायिकारणजातीयं कर्म," ४ "नित्यत्वे सत्येकत्वे सत्यनेकसमवेता जातिः सामान्यापरपर्याया," ५ "नित्येष्वेव द्रव्येष्वेव वर्तत एव ये ते अन्त्या विशेषाः,"६ "अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुर्यः संबन्धः स समवायः," इत्येवं रूपाणि । तेषां ये षडत्यन्ताभावास्तद्वत्त्वस्य तदधिकरणत्वस्य अभावत्वस्य प्रत्यक्षादिप्रमाणसिद्धत्वादभावो ऽयं पक्षनिष्ठत्वादिरूपो धर्म इत्यर्थः । तथा हि, एवंविधो धर्मों द्रव्यं न भवति, तल्लक्षणाभावात् । तथा गुणोऽपि न भवति । तल्लक्षणाभावात् । एवं कर्मसामान्यादिरूपोऽपि न भवति । तत्तल्लक्षणाभावादेव । तस्मादयं पक्षनिष्ठत्वादिधमोऽभावरूप एव सप्तमः पदार्थः केषांचिद्वैशेषिकाणां मते प्रसिद्धः । एवं च प्रमेयत्वास्तित्वाद्योऽपि धर्माः अभावरूपाः एव ज्ञेयाः इत्यर्थः । प्रतियोग्यनिरूप्यस्य अभावत्वानुपपत्तेः प्रतियोगी वाच्य इति शङ्कते । कः पुनरस्य प्रतियोगीति । अस्य पक्षनिष्ठत्वादिधर्मस्याभावरूपस्येत्यर्थः । अभावस्य प्रतियोगिनिरूप्यत्वनियमो नेति परिहरति-न कश्चिदिति । प्रतियोगिज्ञानकार्यत्वादभावज्ञानस्य कथमनियमस्तत्राहसविस्तरं चैतदन्यत्रेति । अत्यन्ताभावो निष्प्रतियोगिक इत्यन्यत्र वार्तिके वक्ष्याम इति तत एवैतज्ज्ञेयमित्यर्थः । इति पक्षं पक्षीकृत्य प्रवृत्तास्त्रिंशन्महाविद्याः प्रादयन्त ॥ ३० ॥
अथ सपक्षं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः यथा-शब्दोऽनित्यः इत्यत्र सपक्षो घटः इति स्थिते,
(भुवन०)-अथ सपक्षं पक्षीकृत्य महाविद्याभेदान् दिदर्शयिषुराह-अथ सपक्षमित्यादि । अथ सपक्षं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदा यथा सन्ति तथोदाहरिष्यन्त इति शेषः । शब्दोऽनित्य इत्यत्रेति । शब्दोऽनित्यः कृतकत्वात् घटवदित्यत्र मूलानुमाने घटः सपनः इति स्थिते, घटं सपक्षं पक्षीकृत्य प्रयुज्यते इत्यर्थः । तत्र
पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् ।
भिन्नं साध्यवतस्तद्वदुद्धृतावधिमेदिनः ॥ इति कारिकामाश्रित्य या प्रवर्तते तामाह
१ अयं घटः एतद्धटपक्षीकृतशब्दान्यान्यानित्यान्यः मेयत्वादिति । अत्र च वक्ष्यमाणासु महाविद्यासु चाकाशो दृष्टान्तः । एतद्धटपक्षीकृतशब्दयोर्ये अन्यत्वे तदुभयवत्त्वरहितः एतद्धटपक्षीकृतशब्दान्यान्यः। स चासौ अ. नित्यश्च । तदन्यत्वाधिकरणमित्यर्थः । एतद्धटपक्षीकृतशब्दान्यान्यानित्यान्यत्वं
Aho ! Shrutgyanam