________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं
३० अयं शब्दः ध्वंसत्वरहितैतद्भावत्वरहिताभावप्रतियोगी मेयत्वादिति ॥ इयं पूर्वा च महाविद्या यत्र यत्रानित्यत्वं साध्यते तत्रैव संचरति । शेषास्तु सकलान्वयव्यतिरेकिसाध्यसंचारिण्य इति ॥ ३० ॥
३० ( भुवन० ) – अयं शब्दः ध्वंसत्वर हितैतदभावेत्यादि । ध्वंसो विनाशः । तत्त्वरहिता ये एतस्य शब्दस्याभावाः पूर्वोक्ता एव । तेषां भावस्तत्त्वं तेन रहितो योऽभावः साध्यधर्मपक्षे प्रध्वंसाभाव एव तस्य प्रतियोगी शब्द इत्यर्थः । अभावप्रतियोगीत्युक्ते शब्दस्यान्योन्याभावादिप्रतियोगित्वं सिद्धमेव इत्यत उक्तमेतदभावत्वरहितेति । तथा च व्याघातः स्यात् । ततस्तत्परिहाराय ध्वंसत्वरहितेति । ध्वंसत्वरहितैतदभावेषु ध्वंसत्वर हितैदभावत्वं धर्मः । तद्रहितश्चाभाव एतदभावत्वरहितो वा ध्वंसो वा । आद्यं प्रति शब्दस्य प्रतियोगित्वं व्याहतमिति एतदभावत्वरहिताभावप्रतियोगित्वं सर्वसपक्षोपयोगि, द्वितीयं प्रति शब्दस्य प्रतियोगिलं सिध्यच्छब्दस्यानित्यत्वं साधयेदित्यर्थः । एतन्महाविद्याद्वयमनित्यत्वसाधकमेव न साध्यान्तरसाधकमिति महाविद्यान्तरेभ्योऽस्य वैलक्षण्यं प्रतिपादयति-— इयमिति । इयमनन्तरोद्दिष्टैव महाविद्या, पूर्वा चायं शब्दोऽनाद्येतदभावे - त्यादिको । शेषास्त्विति । शेषाः पक्षसपक्षादिकं पक्षीकृत्य प्रवृत्ता महाविद्याः । सकलानि अन्वयव्यतिरेकिणां यानि साध्यानि तत्संचारिण्यः । एतत्प्रकारश्च पुरापि आपातनिकायां किञ्चित्प्रपश्चित इति न प्रपश्यते ।
*
ननु महाविद्याप्रकरणे किमिदं पक्षनिष्ठत्वं, किं वा सपक्षनिष्ठत्वं, किं वा विपक्षनिष्ठत्वं, किं वा उभयनिष्ठत्वमिति । उच्यते । अयं पक्षनिष्ठः, अयं सपक्षनिष्ठः, अयं विपक्षनिष्ठ इत्याद्यबाधितबुद्धिसाक्षिकः पक्षाश्रितत्व सपक्षाश्रितत्वविपक्षाश्रितत्वो भयाश्रितत्वरूपो धर्मविशेषः । ननु नायं भावः, अभाasपि वर्तमानत्वात् । नाप्यभावः, प्रतियोगिविशेषानिरूपणात् इति चेत् । न । द्रव्यादिषलक्षणानां ये षडत्यन्ताभावास्तद्वत्त्वस्यात्राभावत्वस्य प्रत्यक्षादिप्रमाणसिद्धत्वादिति । कः पुनरस्य प्रतियोगीति चेत् । न कश्चित् । सैविस्तरं चैतदन्यत्रोपपादयिष्यामः इति ॥
( भुवन ० ) - अथ प्रेमयत्वादीनां हेतूनां पक्षेण सह संयोगसमवायादिसंबन्धाभावात्पक्षधर्मत्वाद्यसिद्धिरिति नोदयति--नन्वित्यादि । उभयनिष्ठत्वमिति । पक्षसपक्षनिष्ठत्वमित्यर्थः । बुद्धिविशेषविषयत्वोपाधिको धर्मः पक्षनिष्ठत्वादिरित्याह-उच्यत इत्यादिना । अयं धर्मविशेषः किं भावः उत अभावः इति विकल्प्य नोदकः प्रथमं प्रत्याह - ननु नायमिति । अयं पक्षनिष्ठत्वादिको धर्मो न भावः । नित्यमाकाशं कृतकत्वाभावादित्यादौ पक्षनिष्ठत्वादेर्धर्मस्य कृतकत्वाभावत अभावरूपेऽपि वर्तमानत्वात् । न द्वितीयोऽपीत्याह - नाप्यभावः, प्रतियोगिविशेषानिरूपणा
१ अस्याग्रे 'शेषं तु सुगममेव ' इति अधिकं छ पुस्तके दृश्यते । २ योगिविषयानि इति घ पुस्तकपाठः । ३ त्वस्य प्रत्य' इति घ पुस्तकपाठः । ४ छ । विस्तरतश्चैतद् इति घ पुस्तकपाठः ।
Aho! Shrutgyanam