________________
महाविद्याविडम्बनम् ।
३७
रिहारार्थमत्यन्ताभावग्रहणम् । अभिमतसाध्यसिद्धिं निरूपयितुमाह - एतन्निष्ठा नित्यत्वेत्यादि । एवंविधश्वात्यन्ताभावो द्वेधा स्यात्, एतन्निष्ठत्वरहितोऽत्यन्ताभावो वा नित्यत्वात्यन्ताभावो वेति । तत्राद्यस्य पक्षे व्याघातमाह - आद्यः पक्षे व्याहत इति । आद्यः एतन्निष्ठत्वरहितोऽत्यन्ताभावः, पक्षे शब्दे, व्याघातेन बाधितः । अयमाशयः -- पक्षीकृतशब्दधर्मा ये शब्दत्व श्रावणत्वादयः तेषामत्यन्ताभावः शब्दनिष्ठो नास्ति । यतः शब्दत्वादय एव शब्दधर्माः शब्दनिष्ठाः, न तु तदत्यन्ताभावः । तस्य शब्दादन्यत्रैव वर्तनात् । ततस्तस्मिन् शब्दे साध्यमाने स्फुट एव व्याघातः । तस्मादे - तन्निष्ठत्वरहितात्यन्ताभावः सर्वत्र सपक्षे ज्ञेयः । द्वितीयस्य शब्दे सिद्धिमाह - द्वितीय इत्यादि । द्वितीयोऽनित्यत्वात्यन्ताभावात्यन्ताभावः । एतावता नित्यत्वस्यात्यन्ताभावः शब्दे साध्यते । स च अनित्यत्वमेवेतिभावः । अत्र हेतुमाह - अनित्यत्वात्यन्ताभावेत्यादि । अनित्यत्वात्यन्ताभावो नित्यत्वम् । तस्यात्यन्ताभावस्य अनित्यत्वानतिरेकादनित्यत्वरूपत्वादित्यर्थः । हेत्वन्तरमाह - तत्तुल्ययोगक्षेमत्वाद्वेति । तेन तुल्यौ यौ योगक्षेमौ, तद्भावः तत्त्वं, तस्मात् । अत्रायं भावः । यथा अनित्यत्वस्यात्यन्तिकनिषेधो नित्यत्वं, तथा तदात्यन्तिकनिषेधः पुनरनित्यत्वमेव । " परस्परविरोधे हि न प्रकारान्तरस्थितिः " इतिन्यायादित्यर्थः ॥ २८ ॥
५० १
२९ अयं शब्दः अनाद्येतदभावत्वरहिताभावप्रतियोगी मेयत्वादिति ॥ अनाद्येतदभावेषु अनाद्येतद्भावत्वं धर्मः । तद्रहितश्चाभावः एतद्भावत्वरहितो वा, आदिमानेतदद्भावो वा । आद्यं प्रत्येतस्मिन्प्रतियोगित्वं न सिध्यति । व्याघातात् । द्वितीयस्तु प्रध्वंस एवेत्यनित्यत्वसिद्धिः ॥ २९ ॥
२९ ( भुवन० ) -- अथाभिनव प्रकारान्तरेण पुनर्महाविद्यान्तरमाह - अयं शब्दः अनाद्येतदभावत्वेत्यादि । एतस्य पक्षशब्दस्य अभावाः एतदभावाः । अनादयश्च ते एतदभावाच अनायेतदभावाः, प्रागभावान्योन्याभावात्यन्ताभावरूपाः । ' अनादिः सान्तः प्रागभाव:, ' ' तादात्म्यनिषेधोऽन्योन्याभाव:, ' ' अनादिरनन्तः संसर्गाभावोऽत्यन्ताभाव: ' इति तेषां लक्षणात् । तेषां भावः तत्वम् । तेन रहितो योऽभावः पक्षमध्ये सादिरभावः, स च प्रध्वंसाभाव एव । 'सादिरनन्तः प्रध्वंसाभावः ' इति तल्लक्षणात् । तस्य प्रतियोगी शब्द इत्यर्थः । अयं शब्दः प्रतियोगीत्युक्ते श्रोत्रे शब्दसमवाय इति समवायप्रतियोगित्वेन शब्दे सिद्धसाध्यता स्यात् । अनाश्रयत्वे सति व्यावर्त - कस्य प्रतियोगित्वात् । अत उक्तमभावप्रतियोगीति । एवं चान्योन्याभावप्रतियोगित्वेन सिद्धसाधनं स्यात्, अत उक्तमनादित्वरहितेति । अनादित्वरहिताभावप्रतियोगीत्युक्ते च व्याप्तिभङ्गः, नित्येषु तद्भावात् । अत उक्तमनादित्वरहितेति । इतिव्यावृत्तिचिन्ता । एतदभाववरहितो वेति । एतस्य पक्षशब्दस्य योऽभावः, तत्त्वरहितोऽभावो घटत्वाकाशत्वाद्यभावः । सोऽप्यनाद्येतदभावत्वरहितः । परमेतस्य शब्दः प्रतियोगी न स्यात्, तस्माद्व्याघातः । आदिमानेतदभावो वेति । आदिर्विद्यते यस्य स आदिमान् । प्रध्वंसाभाव इत्यर्थः । तस्य च प्रतियोगित्वं शब्दस्य अनित्यत्वे एव स्यात्, नान्यथेति शब्दानित्यत्वसिद्धिरिति । अत्र शब्दान्यवत्सु अभावप्रतियोगित्वं शब्दे तरसमस्तवस्तूनामप्यस्तीति तेषां सपक्षता ॥ २९ ॥
Aho! Shrutgyanam