________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं २८ अयं शब्दः एतनिष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणात्यन्ताभाववान् मेयत्वादिति ॥ ये पक्षीकृतशब्दधर्मा अनित्यत्वात्यन्ताभावप्रतियोगिकत्वरहिताः, तेषु एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वं धर्मः, तदनधिकरणं तद्रहितः, एतन्निष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणश्वासौ अत्यन्ताभावश्च तद्धिकरणमित्यर्थः । एतनिष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणवानित्युक्ते अनित्यत्वात्यन्ताभावप्रतियोगिकेन अनित्यत्वात्यन्ताभावान्योन्याभावेन पक्षीकृतशब्दनित्यत्वेऽप्युपपद्यमानेनार्थान्तरता स्यात् । तन्निवृत्यर्थमत्यन्ताभावग्रहणम् । एतनिष्ठानित्यत्वात्यन्ताभावप्रतियोगिकत्वानधिकरणमत्यन्ताभावः एतनिष्ठत्वरहितो वा स्यात्, अनित्यत्वात्यन्ताभावप्रतियोगिकोऽत्यन्ताभावो वा । आद्यः पक्षे व्याहतः । द्वितीयस्त्वनित्यत्वमेव । अनित्यत्वात्यन्ताभावात्यन्ताभावस्य अनित्यत्वानतिरेकात् तत्तुल्ययोगक्षेमत्वादा इत्यनित्यत्वसिद्धिः ॥ २८ ॥
___ २८ ( भुवन०)-अयं शब्दः एतनिष्ठानित्यत्वात्यन्ताभावाप्रतियोगिकत्वानधिकरणात्यन्ताभाववानिति । अनित्यत्वात्यन्ताभावो नित्यत्वमप्रतियोगी यस्य अत्यन्ताभावस्य असौ अनित्यत्वात्यन्ताभावाप्रतियोगिकः । एतस्मिन् पक्षितशब्दे निष्ठा यस्य स तथा । एतनिष्ठश्चासौ अनित्यत्वात्यन्ताभावाप्रतियोगिकश्च एतनिष्ठात्यन्ताभावाप्रतियोगिकः । तस्य भावः तत्त्वम् । तस्य अनधिकरणं योऽत्यन्ताभावः तद्वान् शब्द इति समासः । अनित्यत्वात्यन्ताभावाप्रतियोगिकपदेन नित्यत्वात्यन्ताभावं विना सर्वेऽपि घटत्वपटत्वशब्दत्वादिप्रतियोगिका अत्यन्ताभावा उपात्ताः। एतनिष्ठविशेषणसहितेन च तेन पदेन शब्दत्वादिशब्दधर्मात्यन्ताभावाः पूर्वविशेषणायाताः पृथक्कृतत्वान्नित्यत्वात्यन्ताभावश्च निषिद्धाः । तत्त्वानधिकरणात्यन्ताभावपदेन च घटत्वपटत्वाद्यत्यन्ताभावा एतन्निष्ठेतिविशेषणायाताः सर्वेऽपि निषिद्धाः । शब्दधर्मात्यन्ताभावनित्यत्वात्यन्ताभावौ च पुनरप्युपात्तौ । तत्र पक्षीकृतशब्दे एतच्छब्दधर्मात्यन्ताभावसाधने व्याघात इति नित्यत्वात्यन्ताभावः पक्षी. कृतशब्दे साध्यते इति शब्दानित्यत्वसिद्धिः । अनुमानार्थं व्याचष्टे-ये पक्षीकृतशब्दधमो इत्यादि। पक्षीकृतशब्दधर्मा इह घटत्वाकाशत्वाद्यभावाः । तेषां सर्वेषामपि पक्षीकृतशब्दनिष्ठत्वात् । एतावता अनुमानस्थमेतन्निष्ठेतिपदं व्याख्यातम् । अनित्यत्वात्यन्ताभावेति । अनित्यत्वात्यन्ताभावो नित्यत्वं प्रतियोगी यस्य स तथा । तद्भावः तत्त्वम् । तेन रहिताः। पक्षीकृतशब्दधर्माः सन्तो येऽनित्यत्वात्यन्ताभावप्रतियोगिकत्वरहिता इत्यर्थः । एतावता अनित्यत्वात्यन्ताभावाप्रतियोगिकेति पदमनु. मानस्थं व्याकृतम् । शेषं सुगमम् । अथ अत्यन्ताभावं विमुच्य व्यावृत्तिं करोति- एतन्निष्ठानित्य. त्वात्यन्ताभावेत्यादि । अनित्यत्वात्यन्ताभावप्रतियोगिकेनेति । अनित्यत्वात्यन्ताभावो नित्यत्वं प्रतियोगी यस्य तेन । अनित्यत्वात्यन्ताभावो नित्यत्वं, तस्य अन्योन्याभावेन शब्दो नित्यत्वं न भवतीतिरूपेण शब्दनिष्ठेन सिषाधयिषितानित्यत्वविपर्ययेऽप्युपपद्यमानेन अर्थान्तरता स्यात्, तत्प.
Aho ! Shrutgyanam