________________
३५
५०१
महाविद्याविडम्बनम् । सिध्यति । तस्यानित्यत्ववनिष्ठात्यन्ताभावप्रतियोगित्वे सति पक्षवृत्तित्वेन त. द्रहितत्वानुपपत्तेः । अतोऽनित्यत्ववन्मात्रवृत्तिधर्मः पक्षे सिध्यन् अनित्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ २६ ॥
(भुवन०)-अत्रानित्यत्वसिद्धिं दर्शयितुमाह-अनित्यत्ववनिष्ठेत्यादि । अनित्यत्वात्यन्ताभाववन्मात्रवृत्तिति । नित्यमात्रवृत्तिनित्यत्वादिर्धर्म इत्यर्थः। अनित्यत्ववन्मात्रवृत्तिति । अनित्यमात्रवृत्तिः अनित्यत्वादिरित्यर्थः । शब्दे आद्यधर्मसाधने आद्यविशेषणेन सह विरोधः स्यादि. त्याह-आद्यःपक्षे न सिध्यतीत्यादि । पारिशेष्याद्वितीयधर्म शब्दे साधयति-अतोऽनित्यत्वबन्मात्रेत्यादि । अनित्यत्वशब्दत्वश्रावणत्वादिरनित्यत्ववन्मात्रवृत्तिः तदा स्यात्, यदि शब्दोऽनित्यः स्यादित्यनित्यत्वमन्तर्गतं कृत्वा स धर्मः शब्दे सिध्यति । स चानित्यमात्रवृत्तिर्यद्यपि पक्षे वर्तमानत्वेन पक्षवृत्तित्वरहितो नास्ति, तथाप्यनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति यः पक्षवृत्तिः तत्त्वरहित एवास्तीति व्याख्या ॥२६॥
२७ अयं शब्दः एतच्छन्दनित्यविषयत्वरहितज्ञानविषयः मेयत्वादिति ॥ येषु येषु ज्ञानेषु एतच्छन्दविषयत्वनित्यविषयत्वे स्तः, तेषु तेषु एतच्छन्दनित्यविषयत्वं धर्मः । तद्रहितं ज्ञानमेतच्छब्दाविषयं वा, नित्याविषयं वा । आयं पक्षीकृतशब्दविषयं न सिध्यति । व्याघातात् । द्वितीयं च पक्षशन्दविषयं सिध्यदनित्यत्वमन्तर्भाव्य सिध्यति । पक्षीकृतशब्दनित्यत्वे यस्य कस्यचिदपि तद्विषयज्ञानस्य एतच्छन्दविषयत्वे सति नित्यविषयत्वेन तद्रहितत्वानुपपत्तेः ॥ २७॥
२७ (भुवन० )-अथ प्रकारान्तरेण महाविद्यान्तरमाह-अयं शब्दः एतच्छन्दनित्यविषयत्वरहितज्ञानविषय इति । एतच्छब्दश्च नित्यश्च एतच्छब्दनित्यौ । तौ विषयौ मोचरो यस्य ज्ञानस्य तदेतच्छब्दनित्यविषयम् । तस्य भावः तत्त्वम् । तेन रहितं यत् ज्ञानं तस्य विषयः शब्द इत्यर्थः । येषु येषु ज्ञानेष्वित्यादि । येषु येषु शब्दाकाशादिज्ञानेषु । विशेषणाभावाद्वा विशेष्याभावाद्वा विशिष्टाभाव इति न्यायेन एतच्छब्दनित्यविषयत्वरहितज्ञानं हि एतच्छब्दाविषयं वा नित्याविषयं वा । तत्राद्यस्य एतच्छन्दविषयत्वे व्याघातमाह-आद्यं पक्षीकृतशब्देति । यदेवैतच्छब्दाविषयं तदैवेतच्छब्दविषयमिति व्याघात इत्यर्थः । द्वितीयमिति । नित्याविषयम् । तच्च शब्दविषयं सिध्यच्छब्दस्यानित्यत्वं साधयेदिति भावः । अनित्यत्वसाधने हेतुमाह-पक्षीकृतशब्दनित्यत्वे यस्य कस्यचिदपीत्यादि । यद्यतच्छब्दो नित्योऽङ्गीक्रीयेत, तदा यत्किञ्चिदेतच्छब्दविषयज्ञानस्य नित्यविषयत्वमेव स्यात्, न तु तदविषयत्वमित्यर्थः । तद्रहितत्वानुपपत्तेरिति । नित्यविषयत्वरहितत्वानुपपत्तेरित्यर्थः । अत्र सर्वत्र सपक्षे एतच्छब्दाविषयज्ञानविषयत्वं धर्मो मन्तव्यः ॥२७॥ - १ अनित्यशब्दत्व इति छ द पुस्तक पाठः ।
Aho ! Shrutgyanam