________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं भाववन्निष्ठत्वं तत् अनित्यमात्रवृत्तीनामिव नित्यमात्रवृत्तीनामपि नास्तीत्यर्थः । तन्निवृत्यर्थ प्रथमविशेषणम् । कथमनेन विशेषणेन तन्निरासोऽत्राह-पक्षीकृतशब्देत्यादि । तद्रहितस्वानुपपत्तेरिति । अनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितत्वानुपपत्तेरित्यर्थः । अथ द्वितीयविशेषणं मुक्त्वा व्यावृत्तिचिन्तां करोति-अनित्यत्ववन्निष्ठात्यन्ताभावेत्यादि । अर्थान्तरतामेवाविष्करोति-तेषामि. त्यादिना । मेयत्वादीनामनित्येष्वपि भावादनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वहीनत्वात् अनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगित्वविशिष्टपक्षवृत्तित्वाभाव उभयसंमत इत्यर्थः । तन्निरासाय द्वितीयविशेषणोपादानम् । कथमनेन तभिरासोऽत्राह-मेयत्वादीनामित्यादि । मेयत्वादीनां नित्यानित्यवृत्तित्वेन । तद्रहितत्वानुपपत्तेरिति । नित्यानित्यवृत्तित्वरहितत्वानुपपत्तेरिति भावः ।
अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यत्ववनिष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहिताधिकरणमित्युक्ते नित्यपदार्थेषु साध्याभावः । नित्यपदार्थमात्रवृत्तीनां धर्माणामनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहित. त्वानुपपत्तेः । अनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगित्वरहितनित्यनिष्ठधर्माणां चानित्यत्वात्यन्ताभाववनिष्ठत्वेन तद्रहितत्वानुपपत्तेः । अतो नित्येषु साध्यसद्भावसिध्यर्थं पक्षवृत्तित्वरहितग्रहणम् । यद्यप्येकैकनित्यवृत्तयो धर्मा अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वेन न तद्रहिताः, तथाप्यनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति यत्पक्षवृत्तित्वं तद्रहिता भवन्त्येवेति नित्येषु साध्यानुगमसिद्धिः।
(भुवन०)-अथ पक्षवृत्तित्वेतिपदं त्यक्त्वा व्यावृत्तिं विधत्ते-अनित्यत्ववन्निष्ठात्यन्ताभावेत्यादि। तथाच नित्यमात्रवृत्तीनां धर्माणां द्वितीयविशेषणोपपन्नानामपि प्रथमविशेषणोपपन्नत्वस्यानुपपत्तिः । अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वरहितेति विशेषणोपपन्नानां च सत्त्वादीनां नित्यनिष्ठानां धर्माणां नित्यानित्ययुगलवृत्तित्वेन नित्यानित्ययुगलवृत्तित्वरहितत्वानुपपत्तिश्च । तेन नित्येषु न साध्यसिद्धिः । तदर्थ पक्षवृत्तित्वेति पदोपादानम् । तद्ग्रहणेऽपि च नित्यत्वतवान्तरधर्माणामनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगित्वात् न नित्येषु साध्यानुगम इत्यत आह-यद्यप्येकैकनित्यवृत्तयो धर्मा इति । एकैकनित्यवृत्तयो धर्मा आकाशत्वपरमाणुत्वादयः । ते चानित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिनः, एवं सति न तद्रहिताः । तथापि संपूर्णविशेषणेन विचार्यमाणाः संपूर्ण विशेषणोपपन्ना अपि भवन्त्येवेति नित्येषु साध्यसिद्धिः। ___ एवं पक्षीकृतशब्दातिरिक्तानित्येष्वपि एकैकानित्यनिष्ठधमैः साध्यानुगमो द्रष्टव्यः । अनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहितः अनित्यत्वात्यन्ताभाववन्मात्रवृत्तिर्वा स्यात् अनित्यत्ववन्मात्रवृत्तिर्वा । आद्यः पक्षे न
१.चानिस्यत्ववनिष्ठानित्यत्वा' इति ज पुस्तकपाठः । २ सिद्धेः । इति ज पुस्तकपाठः ।
Aho ! Shrutgyanam