________________
५०१ महाविद्याविडम्बनम् ।
३३ विद्यमानत्वेन अत्यन्ताभावप्रतियोगित्वस्यैव अभावात् । अथ द्वितीयविशेषणं व्याख्यायते-अनित्यत्ववन्तोऽनित्यपदार्थाः । तन्निष्ठाश्च अनित्यत्वात्यन्ताभाववन्तो नित्यपदार्थाः, तन्निष्ठाश्च । तत्त्वेन रहितो यो धर्मः स तथा । ततोऽनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितश्चासौ अनित्यत्ववनिष्ठात्यन्ताभाववन्निष्ठत्वरहितश्चेति कर्मधारयः । तस्याश्रयः शब्द इत्यर्थः । अत्र च द्वितीयविशेषणेन प्रथमविशेषणोपपन्नानामप्यस्तित्वप्रमेयत्वादीनां व्यवच्छेदः कृतः । एवंविधविशेषणद्वयोपपन्नश्च धर्मः पक्षे शब्दे शब्दत्वादिरेव । स च अनित्यत्ववदनित्यत्वात्यन्ताभाववद्युगलनिष्ठत्वरहितो विद्यते । स चाद्यविशेषणोपपन्नस्तदैव स्यात् , यदि शब्दस्यानित्यत्वमङ्गीक्रीयेत । शब्दस्य च नित्यत्वे स धर्मोऽनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगी सन् पक्षवृत्तिरेव स्यात्, न तु तत्त्वरहितः । तस्माच्छब्दस्यानित्यत्वमङ्गीकार्यम् । दृष्टान्ते चैवंविधो धर्मः एकैकनित्यनिष्ठो गगनत्वादिरेकैकानित्यनिष्ठो घटत्वादिश्व ज्ञेयः।
अनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहिताधिकरणमित्युक्ते नित्यत्वतद्वान्तरधर्मैरनित्यत्वात्यन्ताभाववन्मात्रवृत्तिभिरर्थान्तरता स्यात् । अनित्यत्ववन्मात्रवृत्तीनामिव अनित्यत्वात्यन्ताभाववन्मात्रवृत्तीनामप्यनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहितत्वात् । तन्निवृत्यर्थमनित्यत्ववन्निष्ठास्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितग्रहणम् । पक्षीकृतशब्दनित्यत्वे नित्यत्वादीनामनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वेन तद्रहितत्वानुपपत्तेः । अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहिताधिकरणमित्युक्ते मेयत्वाभिधेयत्वादिभिरर्थान्तरता स्यात् । तेषां पक्षनिष्ठत्वेऽप्यनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति यत्पक्षवृत्तित्वं तद्रहितत्वेन पक्षीकृतशब्दनित्यत्ववादिनाप्यङ्गीकारात् । तन्निवृत्यर्थमनित्यत्ववनिष्ठानित्यत्वात्यन्ताभाववन्निष्ठस्वरहितग्रहणम् । मेयत्वादीनामनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववनिष्ठत्वेन तद्रहितत्वानुपपत्तेः। _(भुवन०) अथैतदनुमानं व्याचष्टे-अनित्यत्ववन्निष्ठत्यादि । अथ व्यावृत्तिचिन्ता । शब्दः अनित्यत्ववन्निष्ठेत्यादिसाध्यवानिति शब्दमात्रपक्षीकरणे एकस्य शब्दस्य यन्नित्यत्वं तदनित्यत्ववनिष्ठास्यन्ताभावप्रतियोगित्वे सति यत्पक्षवृत्तित्वं तद्रहितं, सर्वशब्दानां पक्षत्वेन तत्र वृत्तिहीनत्वात् । एवमनित्यत्ववन्निष्ठत्वे सति यदनित्यत्वात्यन्ताभाववन्निष्ठत्वं तद्रहितं च । तदाश्रय एकः शब्द इति भागे सिद्धसाधनता स्यात् , अत उक्तमयं शब्द इति । अथ प्रन्यकृदाद्यविशेषणपरिहारेण व्यावृत्तिचिन्तामाह-अनित्यत्ववनिष्ठानित्यत्वेत्यादि । नित्यत्वतदवान्तरधरिति । शब्दस्यानित्यत्वे साध्ये नित्यत्वरूपार्थान्तरता स्यात् । कैः । नित्यत्वतदवान्तरधः । नित्यत्वं च, तस्मात् नित्यत्वादवान्तरधर्माश्च शब्दत्वादयः, तैः। अनित्यत्वात्यन्ताभाववन्मात्रवृत्तिभिरिति । नित्यमात्रवृत्तिभिरित्यर्थः। कथमर्थान्तरता अत्राह-अनित्यत्ववन्मात्रेत्यादि । अनित्यत्ववन्निष्ठत्वे सति यत् अनित्यत्वात्यन्ता
५ महाविद्या
Aho! Shrutgyanam