________________
३२
श्रीभुवनसुन्दरसूरिकृतटीकायुतं भावपदमेव पूर्वमहाविद्यावैलक्षण्यम् । शेषं पूर्ववत् । एवं पक्षमात्रनिष्ठयत्किश्चिद्धर्मविशेषात्यन्ताभावमुपादाय यावन्तः पक्षे धर्मास्तावत्यो महाविद्या द्रष्टव्याः ॥ २४ ॥
२४ ( भुवन०)-अयं शब्दः शब्दत्वात्यन्ताभावेत्यादि । शब्दत्वस्य अत्यन्ताभावः श. ब्दत्वात्यन्ताभावः । अत्र चैवंविधविशेषणविशिष्टो धर्मः शब्दत्वात्यन्ताभावो वा शब्दत्वादिर्वा । आद्यः पक्षे व्याहतत्वादृष्टान्तोपयोगी । द्वितीयस्तु पक्षोपयोगी । अन्योन्याभावपदस्थाने इति । अन्यत्वपदस्थाने इत्यर्थः । अन्यत्वान्योन्याभावयोहि पर्यायान्तरतैव नार्थान्तरतेति भावः ॥ २४ ॥
२५ यदा सामान्यतः अयं शब्दः एतन्मात्रनिष्ठात्यन्ताभावव्यतिरिक्तैदन्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ २५॥
२५ (भुवन०)-यद्वा सामान्यतः अयं शब्दः एतन्मात्रनिष्ठात्यन्ताभावेत्यादि । एतन्मात्रनिष्ठः शब्दत्वादिः, तस्य अत्यन्ताभावः एतन्मात्रनिष्ठात्यन्ताभावः । अत्राप्येवंविधो धर्म एतन्निष्ठात्यन्ताभावो वा शब्दत्वादिरेव वा । शेषं पूर्ववदेव ॥ २५ ॥
२६ अयं शब्दः अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितानित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति ये पक्षवृत्तयो धर्माः, तेषु अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वं धर्मः । ये चानित्यत्ववन्निष्ठत्वे सति अनित्यत्वात्यन्ताभाववनिष्ठा धर्माः, तेषु अनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववनिष्ठत्वं धर्मः । अनित्यत्ववनिष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितश्चासौ अनित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहितश्च, तदधिकरणं तदाश्रय इत्यर्थः ।
२६ (भुवन०)-अयं शब्दः अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिपक्षवृत्तित्वरहितानित्यत्ववन्निष्ठानित्यत्वात्यन्ताभाववन्निष्ठत्वरहिताधिकरणमिति । अनित्यत्वं विद्यते येषु ते अनित्यत्ववन्तः अनित्यपदार्थाः । तेषु निष्ठा अवस्थानं यस्य सोऽनित्यत्ववनिष्ठः । स चासौ अत्यन्ताभावश्च । तस्य प्रतियोगिनः परमाणुत्वाकाशत्वादयः । पक्षे वृत्तियेषां ते पक्षवृत्तयः । अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिनश्च ते पक्षवृत्तयश्चेति समासः । एवंविधाश्च धर्माः शब्दस्य नित्यत्वेऽङ्गीक्रियमाणे शब्दत्वश्रावणत्वनित्यत्वादयः । तेषां भावः तत्त्वम् । तेन रहिता नित्यनिष्ठा अनित्यनिष्ठा नित्यानित्योभयनिष्ठाश्च धर्माः स्युः । तत्र ये नित्यनिष्ठा आकाशत्वादयो ये चानित्यनिष्ठा घटत्वादयो ये चोभयनिष्ठा अस्तित्वप्रमेयत्वादयः, ते सर्वेऽप्यनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगिनः सन्तो ये पक्षवृत्तयस्तत्त्वरहिता विद्यन्त एव । यद्यप्यस्तित्वप्रमेयत्वादयः पक्षवृत्तित्वरहिता न सन्ति, तथाप्यनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वे सति ये पक्षवृत्तयस्तत्त्वरहिता एव । तेषां सर्वत्रापि
१ तेषु धर्मधु अनि इति ग पुस्तकपाठः ।
Aho ! Shrutgyanam