________________
महाविद्याविडम्बनम् । शब्दत्वव्यतिरिक्तेतिपदोपादानम् । तथा च पक्षे अनित्यनिष्ठेतिविशेषणविशिष्टशब्दत्वसिद्धथा व्याघातपरिहारो बोद्धव्यः । एतदेवानुमानं शब्दव्यतिरिक्तेत्यादिना व्याख्यानयति-अनेतद्धर्म इति । अशब्दधर्म इत्यर्थः । अनित्यनिष्ठत्वविशेषितमिति । शब्दत्वस्य शब्दमात्रनिष्ठत्वादनित्यनिष्ठेति द्वितीयविशेषणविशिष्टत्वं शब्दस्यानित्यत्वे सत्येव स्यात्, नान्यथेत्यर्थः । एवं पक्षमात्रनिष्ठयत्किश्चिद्धर्मविशेषव्यतिरिक्तमिति । अयं शब्दः श्रावणत्वव्यतिरिक्तैतद्धर्मत्वरहितानित्यनिष्ठाधिकरणं मेयत्वादित्यादिका महाविद्येत्यर्थः ॥ २१ ॥
२२ यदा सामान्यतः अयं शब्दः एतन्मात्रनिष्ठव्यतिरिक्तैतडर्मत्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ २२ ॥
__ २२ ( भुवन०) यद्वा सामान्यतः अयं शब्दः एतन्मात्रनिष्ठव्यतिरिक्तेत्यादि । एतन्माननिष्ठाः पक्षीकृतशब्दमात्रनिष्ठाः एतच्छब्दत्वैतच्छ्रावणत्वादयः । पक्षीकृतशब्दे एव तेषां वर्तमानत्वात् । तद्व्यतिरिक्ता एतद्धर्मा अस्तित्वप्रमेयत्वादयः, तेषां पक्षीकृतशब्दमात्रादन्यत्रापि वर्तनात्। तत्त्वेन रहितो योऽनित्यनिष्ठस्तस्याधिकरणमित्यर्थः । विशेषणसाफल्यं पूर्ववदेव ज्ञातव्यम् ॥२२॥
२३ अयं शब्दः एतदन्यत्वव्यतिरिक्तैतदन्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ एतदन्यत्वव्यतिरिक्ता ये एतदन्यवृत्तयः तेषु एतदन्यत्वव्यतिरिक्तैतदन्यवृत्तित्वं धर्मः । तद्रहितश्चैतदन्यत्वं वा, एतदवृत्तिर्वा, एतन्मात्रवृत्तिर्वा । आद्यौ पक्षे व्योहतौ । तेन पक्षमात्रनिष्ठो धर्मोऽनित्यनिष्ठत्वविशेषितः पक्षे सिध्यतीत्यनित्यत्वसिद्धिः ॥ २३ ॥
___ २३ ( भुवन० )-अयं शब्दः एतदन्यत्वव्यतिरिक्तैतदन्यवृत्तित्वरहितानित्यनिष्ठाधिकरणमिति । एतस्मात्पक्षीकृतशब्दात् यत् अन्यत्वं भिन्नत्वं, तव्यतिरिक्ताः एतद्भिन्नाः । एतस्मापक्षीकृतशब्दादन्ये घटपटात्मादयः, तत्र वृत्तियेषां ते एतदन्यवृत्तयः । एतदन्यत्वव्यतिरिक्ताश्च ते एतदन्यवृत्तयश्च एतदन्यव्यतिरिक्तैतदन्यवृत्तयः । तेषां भावः तत्त्वम् । तेन रहितो योऽनित्यनिष्ठो धर्मः तस्याधिकरणं शब्द इत्यर्थः । एतदन्यत्वं वेति । एतदन्योन्याभावो वा । एतदवृत्तिति । घटत्वपटत्वात्मत्वादि । एतन्मात्रवृत्तिर्वेति । शब्दत्वश्रावणत्वादि । आद्याविति । आद्यौ धर्मों पक्षे व्याघातादेव साधयितुमशक्यौ । तृतीयश्चानित्यनिष्ठस्तदैव स्यात्, यदि शब्दोऽनित्यः स्यादिति शब्दानित्यत्वसिद्धिः । अत्रानुमाने सर्वत्रापि दृष्टान्ते एतदन्यत्वं धर्मोऽधिगन्तव्यः । तद्भिन्नानां सर्वेषामप्येतदन्यवृत्तित्वरहितपदेन निषिद्धत्वात्, एतदन्यत्वव्यतिरिक्तेति पदेन एतदन्यत्वस्यैव ग्रहणाच्च । स चानित्ये घटपटादौ वर्तमानत्वादनित्यनिष्ठ एवेति सर्व समञ्जसमेवेति ॥ २३ ॥
२४ अयं शब्दः शब्दत्वात्यन्ताभावव्यतिरिक्तैतदन्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ अत्र चैतदन्योन्याभावपदस्थाने शब्दत्वात्यन्ता
१ वा अवृत्ति इति ज पुस्तकपाठः । २ व्याहतौ ध्याघातात् । तेन' इति ज पुस्तकपाठः । ३ ऽनित्यत्व विशे इति ग पुस्तकपाठः।
Aho ! Shrutgyanam