________________
महाविद्याविडम्बनम् ।
नित्यनिष्ठत्वरहितो वेति । घटत्वपटत्वादिधर्मः, शब्दे नित्यत्वे चाङ्गीक्रियमाणे शब्दत्वश्रावणत्वादिः । मायः पक्षे व्याघातादित्यादि । न ह्येतदन्योन्याभावव्याप्यो नित्यधर्मों का नित्येतरधर्मो वा तन्माअनिष्ठः एतस्मिन् शब्दे स्वान्योन्याभावरहिते साधयितुं शक्यते । असंभवात् । शब्दान्योन्याभावव्याप्यो हि धर्मः शब्दान्योन्याभाववत्येव धर्मिणि साधयितुं शक्यो नान्यत्रेत्यर्थः । द्वितीयविकल्पेन शब्दानित्यत्वसिद्धिमाह-तेन नित्यनिष्ठत्वरहितो धर्म इत्यादि । नित्यनिष्ठत्वरहितोऽपि धर्मों यथोक्तविशेषणोपपन्नो द्वेधा, पक्षनिष्ठः शब्दत्वादिः, सपक्षनिष्ठो घटत्वादिश्च । तत्र घटत्वादिरन्यमात्रधर्मत्वेन पक्षे व्याघातादेव साधयितुमशक्यः । शब्दत्वादिश्च नित्यनिष्ठत्वरहितस्तदैव स्यात्, यदि शब्दस्यानित्यत्वं स्यात् । तस्मादनित्यः शब्दः स्वीकर्तव्यः । तत्तत्पदार्थमात्रनिष्ठं घटत्वगगनत्वादिधर्ममात्रमादाय सर्वत्र नित्यानित्यपदार्थेषु साध्यप्रसिद्धिर्द्रष्टव्येत्यर्थः ॥९॥
१० अयं शब्दः शब्दत्वात्यन्ताभावाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं. मेयत्वादिति । अत्र च पक्षीकृतशब्दान्योन्याभावतुल्यः शब्दत्वात्यन्ताभावः। शेषं पूर्ववत् । एवं पक्षीकृतशब्दनिष्ठयत्किञ्चिद्धर्मविशेषात्यन्ताभावमुपादाय यावन्तः पक्षीकृतशब्द्धर्मास्तावत्यो महाविद्या द्रष्टव्याः॥१०॥
१० (भुवन०)-अयं शब्दः शब्दत्वात्यन्ताभावाव्याप्येत्यादि । शब्दत्वस्यात्यन्ताभावः शब्दत्वात्यन्ताभावः इति कार्यम् । यादृशः पाश्चात्यानुमाने शब्दान्योन्याभावः तादृशोऽत्र शब्दत्वात्यन्ताभवः । शेषं पूर्ववत् । अत्र अयमितिपक्षविशेषणस्य कार्य न दृश्यते । शब्दमात्रस्यापि शब्दत्वात्यन्ताभावरहितत्वेन शब्दैकदेशे सिद्धसाधनत्वाद्यभावात् । अतः केवलं स्पष्टीकरणार्थमयमितिविशेषणम् । यद्वा पक्षतुल्ये यत्र कापि शब्दे साध्यसिद्धेनिषेधाय अयमितिपदम् । अत्रापि पूर्ववत् शब्दत्वात्यन्ताभावाव्याप्यनित्यनिष्ठत्वरहितो धर्मः शब्दत्वात्यन्ताभावव्याप्यो वा नित्यनिष्ठत्वरहितो वा। पूर्वः पक्षे व्याहत इति, द्वितीयः पक्षे सिध्यन्ननित्यत्वमन्तर्भाव्य सिध्यतीति शब्दानित्यत्वसिद्धिरित्यर्थः । एवं पक्षीकृतशब्दनिष्ठयत्किञ्चिदित्यादि । यथा अयं शब्दः शब्दत्वात्यन्ताभावाव्याप्येत्यादिमहाविद्या प्रयुक्ता, तथा पक्षीकृतशब्दनिष्ठा ये केचन धर्मविशेषाः श्रावणत्वाकाशविशेषगुणत्वशब्दव्यतिरिक्तान्यत्वादयः तेषां योऽत्यन्ताभावः तमादायान्या अपि महाविद्याः प्रयोक्तव्याः । तथाहि-अयं शब्दः आकाशविशेषगुणत्वात्यन्ताभावाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वात् । एवमन्या अपि ज्ञेयाः ॥ १०॥
११ यद्वा सामान्यतः अयं शब्दः एतनिष्ठात्यन्ताभावाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति । एतनिष्ठस्यात्यन्ताभावः एतन्निष्ठात्यन्ताभावः । शेषं सुगमम् ॥ ११ ॥
११ (भुवन०)-यद्वा सामान्यतः अयं शब्दः एतनिष्ठात्यन्ताभावेत्यादि । एतस्मिन् पक्षी कृते शब्दे निष्ठा यस्य स एतन्निष्ठः । एतनिष्ठस्य अत्यन्ताभावः एतनिष्ठात्यन्ताभावः । तेन
१ शेषं सर्व पूर्व इति च पुस्तकपाठः ।
Aho ! Shrutgyanam