________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं तस्य च नित्यत्वस्य दृष्टान्तेऽपि यथोक्तविशेषणत्रयविशिष्टत्वं विलोक्यते । तच्च प्रथमविशेषणविशिष्टं नास्ति । यतः प्रथमविशेषणविशिष्टत्वं तदा अस्य स्यात्, यदि शब्दस्यानित्यत्वं सिद्धं स्यात् । तच्चाद्यापि सिद्धं नास्ति । शब्देऽद्यापि तस्य साध्यमानत्वात् । असिद्धे चानित्यत्वे नित्यत्वस्यैतदाकाशवृत्तित्वं न स्यात् । पक्षीकृतशब्द आकाशे च वर्तनात् । तस्मादृष्टान्तार्थ पृथकृतस्य नित्यत्वस्य शब्दानित्यत्वसिद्धेः पूर्वमेतदाकाशवृत्तित्वराहित्यसंदेहान्नित्यानां संदिग्धसाध्यसमानधर्मवत्तया पक्षतुल्यत्वेन कक्षं सपक्षतेत्याक्षेपे ग्रन्थकृत्परिहारमाह-न नित्यानां पक्षतुल्यत्वेनेत्यादिना । अत्र चानित्यपदार्थो घटादय एव दृष्टान्तीकार्याः, न नित्या आकाशादयः । तेषां संदिग्धसाध्यधर्मवत्त्वेन पक्षतुल्यत्वात् । न च पक्षतुल्येषु व्यभिचारः । न हि पक्षे पक्षतुल्ये वा व्यभिचारः' इति वचनात् । पक्षतुल्यत्वे हेतुमाह-अत एवैनां महाविद्यामिति । शब्दोऽनित्यः कृतकत्वात् घटवत् इति मूलानुमानम् । तस्य विपक्षः तद्विपक्षः, तं मूलानुमानविपक्षमित्यर्थः । तदा चेत्यादि । तदा मूलानुमानविपक्षस्य गगनादेर्नित्यस्य पक्षत्वे । मूलानुमानपक्षस्येति । शब्दस्य पक्षतुल्यत्वम् । सपक्षस्य चेति । मूलानुमानस्यैव सपक्षस्य घटादेरनित्यस्य । सपक्षत्वमिति । साथ्यसमानधर्मवत्त्वं सपक्षत्वमित्यर्थः । सोऽयं नित्यानां पक्षतुल्यत्वे हेतुरित्यर्थः । अत्र च नित्यानां पक्षतुल्यत्वेन व्यपदेशान्नित्यत्वव्यतिरिक्तेतिपदस्य साफल्यं सूक्ष्ममतिभिश्चिन्त्यम् ॥ ८॥
९ अयं शब्दः एतदन्योन्याभावाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति । एतदन्योन्याभावाव्याप्यनित्यनिष्ठत्वं धर्मः । तद्रहितश्च एतदन्योन्याभावव्याप्यो वा स्यात्, नित्यनिष्ठत्वरहितो वा । आद्यः पक्षे व्याघातान्न सिध्यति । न ह्येतदन्योन्याभावव्याप्यः एतस्मिन्नेतदन्योन्याभावरहिते वर्तते इति संभवति । तेन नित्यनिष्ठत्वरहितो धर्मः पक्षे सिध्यन्ननित्यत्वमन्तर्भाव्य सिध्यतीति अनित्यत्वसिडिः ॥९॥
___९ (भुवन०)-पुनरपि प्रकारान्तरेण महाविद्यान्तरमाह-अयं शब्दः एतदन्योन्याभावाव्याप्येत्यादि । एतस्य पक्षीकृतशब्दस्य, अन्योन्याभावः एतदन्योन्याभावः । एतदन्योन्याभावेन अव्याप्याः एतदन्योभावाव्याप्याः । ते च ते नित्यनिष्ठाश्च एतदन्योन्याभावाव्याप्यनित्यनिष्ठाः । तेषां भावः तत्त्वम् । तद्रहितो यो धर्मः, तस्याधिकरणमित्यर्थः । अत्र नित्यनिष्ठा धर्मा द्विधा, आकाशत्वादयः सत्त्वादयश्च । तत्र प्रथमे एतदन्योन्याभावव्याप्याः, यत्र यत्र आकाशत्वादयः, तत्र तत्र एतदन्योन्याभावः इत्येवं व्याप्तिसद्भावात् । इतरे चैतदन्योन्याभावाव्याप्याः यत्र यत्र सत्त्वादयः, तत्र तत्र एतदन्योन्याभाव इति व्याप्त्यभावात् । सत्त्वादीनां शब्देऽपि भावात् । एतदन्योन्याभावस्य च तत्राभावात् । तेन. एतदन्योन्याभावाव्याप्येत्यादिना । एतदन्योन्याभावव्याप्यो वेति । एतदन्योन्याभावव्याप्यश्च धर्मो नित्यनिष्ठो वा अनित्यनिष्ठो वा पक्षीकृतशब्द. धर्मान् मुक्त्वा सर्वोऽप्युपपद्यत एव । तेषामुभयेषामप्येतदन्योन्याभावेन अव्याप्याः सन्तो ये नित्यनिष्ठाः, तत्त्वेन रहितत्वादेतदन्योन्याभावेन व्याप्यत्वाच्च । पक्षीकृतशब्दमात्रधर्माणां च शब्द एव विद्यमानत्वेन तत्र चैतदन्योन्याभावस्य अविद्यमानत्वेन तेषामेतदन्योन्याभावाव्याप्यत्वमिति भावः।
Aho ! Shrutgyanam