________________
महाविद्याविडम्बनम् |
२३
नित्यत्वव्याप्यत्वरहितेतिविशेषणग्रहणम् । तथा च सति पक्षीकृतशब्दनित्यत्वपक्षे शब्दत्व श्रावणत्वशब्दान्यत्वात्यन्ताभावादीनां नित्यत्वव्याप्यत्वेन तद्रहितत्वानुपपत्तिः ।
एतदाकाशवृत्तित्वरहितनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनि
5
छत्वरहिताधिकरणमित्युक्ते नित्यपदार्थेषु साध्याभावः । यदि नित्यपदार्थधर्मेषु नित्यत्वव्याप्यनित्यनिष्ठत्वरहितत्वं नित्यनिष्ठत्वरहितत्वेन तदा नित्यनिष्ठत्वनित्यनिष्ठत्वरहितत्वयोर्व्याघातः । अथ नित्यत्वाव्याप्यत्वरहितत्वेन, तदानित्यत्वव्याप्यत्वरहितत्वनित्यत्वाव्याप्यत्वरहितत्वयोर्व्याघातः
। तस्मानित्यत्वव्याप्यत्वरहितो नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितश्च धर्मो नित्येषु न संभवत्येवेति व्याप्तिभङ्गः । तन्निवृत्त्यर्थं नित्यत्वव्यतिरिक्तग्रहणम् । एतदाकाशवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहिताधिकरणमित्युक्ते गगनान्यत्वेनोक्तरूपोपपन्नेनार्थान्तरता स्यात् । तन्निवृत्त्यर्थं नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितग्रहणम् । गगनान्यत्वस्य नित्यनिष्ठत्वात् नित्यत्वाव्याप्यत्वाच्च तद्रहितत्वानुपपत्तेः ।
( आनं० ) विशेष्याभावाद्वा विशेषणाभावाद्वा विशिष्टाभावो वाच्यः । तथा च नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितत्वं किं नित्यनिष्ठत्वाभावेन नित्यत्वाव्याप्यत्वाभावेन वेति विकल्प्य दूषयतियदीत्यादिना । फलितमुपसंहरति--तस्मादिति । नित्यत्वाव्याप्यनित्यनिष्ठत्वर हितग्रहणेन गगनान्यत्वनिरासः कुतोऽत्राह – गगनान्यत्वस्येति । नित्यानित्यस कलवस्तुषु गगनातिरिक्तेषु गगनान्यत्वस्य सत्वान्नित्यनिष्ठत्वान्नित्यत्वाव्याप्यत्वाच्च नित्यत्वव्याप्यत्वे सति नित्यनिष्ठत्वरहितत्वं नास्तीत्यर्थः ।
( भुवन ० ) - अथ द्वितीयविशेषणस्थं नित्यत्वव्यतिरिक्तेतिपदं मुक्त्वा व्यावृत्तिं चिन्तयतिएतदाकाशवृत्तित्वरहितेत्यादि । नित्यपदार्थेषु साध्याभाव इति । दृष्टान्तीकृतेषु नित्यपदार्थेषु साध्यस्यानुपपत्तिः । विशेष्याभावाद्वा विशेषणाभावाद्वा विशिष्टाभावो वाच्यः । तथा च नित्यत्वा - व्याप्यनित्यनिष्ठत्वरहितत्वं किं नित्यनिष्ठत्वाभावेन वा, नित्यव्याप्यत्वाभावेन वा, इति विकल्पाभ्यां तृतीयविशेषणविचारणया नित्यपदार्थेषु साध्यानुपपत्तिमेव दर्शयति - यदि नित्यपदार्थेत्यादि । मत्र तृतीयविशेषणविशिष्टा द्वये धर्माः स्युः । एके केवलानित्यनिष्ठा घटत्वादयः । अपरे केवलनित्यनिष्ठा आकाशत्वपरमाणुत्वादयः । ते च द्वयेऽपि विकल्पद्वयेन नित्येषु निवर्तयितव्याः । तत्र प्रथम विकल्पेन केवलानित्यनिष्ठान् घटत्वादीन्निवर्तयति - यदीत्यादिना । यदि नित्यनिष्ठधर्मेषु नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितत्वं विद्यते, केन प्रकारेणेत्याह – नित्यनिष्ठत्वरहितत्वेनेति । नित्यवृत्तित्वरहितत्वेन । तदा नित्यनिष्ठत्वनित्यनिष्ठत्वरहितत्वयोर्व्याघात इति । नित्यवृत्तित्वनित्यवृत्तित्वरहितत्वयोर्व्याघातः । अयमर्थः — दृष्टान्तीकृतेषु आकाशादिनित्येषु वर्तमानस्य यस्य कस्यापि धर्मस्य नित्यनिष्ठत्वेन नित्यनिष्ठत्वरहितत्वं न स्यादेवेति स्पष्ट एव व्याघातः । ' विरुद्ध -
I
Aho! Shrutgyanam