________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं समुच्चयो व्याघातः इति तल्लक्षणात् । अथ केवलनित्यनिष्ठानाकाशत्वादीनिवर्तयति-अथेत्यादिना। अथ नित्यत्वाव्याप्यत्वरहितत्वेनेति विकल्पोऽजीक्रियते, तदा द्वितीयविशेषणोक्तस्य नित्यत्वव्याप्यत्वरहितत्वस्य एतद्विशेषणायातनित्यत्वाव्याप्यत्वरहितत्वस्य च व्याघातः । नित्यत्वव्याप्यत्वरहितो हि नित्यत्वाव्याप्यः स्यात्, न तु नित्यत्वाव्याप्यत्वरहितः । नित्यत्वाव्याप्यत्वरहितोऽपि च नित्यत्वव्याप्यः स्यात्, न तु नित्यत्वव्याप्यत्वरहितः । तेन व्याघात एव । अयं भावः-नित्यत्वव्यतिरिक्तेति पदं विना नित्यपदार्थधर्मस्य यदि द्वितीयविशेषणविशिष्टत्वं स्यात्, तदा तृतीयविशेषणविशिष्टत्वं न स्यात् । यदि च तृतीयविशेषणविशिष्टत्वं, तदा न द्वितीयविशेषणविशिष्टत्वमिति । ततो द्वितीयतृतीयविशेषणविशिष्टो धर्मो नित्यत्वव्यतिरिक्तेतिपदं विना नित्येषु न संभवत्येव । तेन तेषु व्याप्तिभङ्गः । तन्निवृत्त्यर्थ नित्यत्वव्यतिरिक्तग्रहणम् । तथा च सति नित्यपदार्थेषु नित्यत्वमेव धर्मः । अथ तृतीयं विशेषणं त्यक्त्वा व्यावृत्ति विधत्ते–एतदाकाशत्तित्वरहितेत्यादि । गगनान्यत्वेनोतरूपोपपनेनार्थान्तरतेति । गगनान्यत्वस्य हि गगनावृत्तित्वेनैतच्छन्दवृत्तित्वेन चैतदाकाशवृत्तित्वरहितत्वादनित्येष्वपि वर्तमानत्वेन नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितत्वाञ्च एतद्विशेषणद्वयोपपन्नेन तेनार्थान्तरता स्यात् , तन्निरासार्थ तृतीयविशेषणग्रहणम् । अनेन विशेषणेन कथमर्थान्तरतानिरासः, अत्राह-गगनान्यत्वस्येति । गगनान्यत्वस्य गगनातिरिक्तेषु सकलनित्यानित्येषु विद्यमानत्वेन नित्यनिष्ठत्वात् नित्यत्वाव्याप्यत्वाच्च । तद्रहितत्वेति । नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितत्वानुपपत्तेरिति भावः। ___नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितं नित्यत्वं वा स्यानित्यत्वाव्याप्यं वा । तत्र नित्यत्वं तावत्पक्षे न सिध्यति । पक्षीकृतशब्दनित्यत्वपक्षे नित्यस्वस्यैतदाकाशवृत्तित्वेन एतदाकाशवृत्तित्वरहितत्वव्याघातात् । नित्यत्वाव्याप्यमपि नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितं यदि नित्यत्वाव्याप्यत्वरहितत्वेन, तदा नित्यत्वाव्याप्यं नित्यत्वाव्याप्यत्वरहितं चेति व्याघातादेव तथारूपस्य पक्षेऽनुपसंहारः। तेन नित्यत्वाव्याप्यस्य नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितत्वं नित्यनिष्ठत्वरहितत्वेन स्वीकर्तव्यम् । तेन नित्यनिष्ठत्वरहितः पक्षीकृतशब्दे धर्मोऽधिगम्यमानो नित्यत्वप्रतिक्षेपरूपमनित्यत्वमन्तर्भाव्य अधिगम्यते इति अनित्यत्वसिद्धिः।
(आनं०) तथापि कथं शब्दस्यानित्यत्वसिद्धिरत्राह-नित्यत्वेति । नित्यत्वव्यतिरिक्तवाभावाग्नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वमेवास्तु, अत आह-अत्रेति । द्वितीयेऽपि नित्यत्वाव्याप्यनित्यनिष्ठत्वरहितं नित्यत्वाव्याप्यत्वाभावेन नित्यनिष्ठत्वाभावेनवेति विकल्प्याद्यमनुवदतिनित्यत्वाव्याप्यमपीति । अपवदति-तदेति । द्वितीयः परिशिष्यत इत्याह-तेनेति । किमतस्तत्राह तेन नित्यति ।
(भुक्न०)-एवमप्यत्र कथं शब्दस्यानित्यत्वसिद्धिरत्र प्राह-नित्यत्कयतिरिक्तेत्यादि ।
Aho ! Shrutgyanam