________________
महाविद्याविडम्बनम् ।
वण्याच्या आकाशत्वादयः । नित्यत्वाव्याप्याश्च सत्त्वादयः । तत्र आद्या द्वितीयविशेषणेन निषिद्धाः । सत्त्वादयश्चानेन विशेषणेन निषिद्धाः । तेषां नित्यत्वाव्याप्यनित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेः । नित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताश्च अनित्यमात्रनिष्ठा घटत्वादयो, नित्यमात्रनिष्ठा आकाशत्वादयश्च । तत्र आकाशत्वादयो द्वितीयविशेषणेन निरस्ता एव । उद्धरिताश्च घटत्वपटत्वायो धर्मा घटादिदृष्टान्तोपयोगिनः । शब्दघटान्यतरत्वादयः पक्षीकृतशब्दोपयोगिनः । अत्र च द्वितीयतृतीयविशेषणद्वयविशिष्टं नित्यत्वमप्युद्धरितमस्ति । परं शब्दनित्यत्वेऽङ्गीक्रियमाणे तस्य एतदाकाशवृत्तित्वरहितत्वं न स्यात् । शब्दे चानित्येऽङ्गीक्रियमाणे विशेषणत्रयविशिष्टं तदाकाशादौ दृष्टान्ते उपकारकृत् ज्ञेयम् । एवंविधाश्व धर्मा अत्र घटशब्दान्यतरत्वादयो नित्यत्वव्याप्यनित्यनिछत्वादयो रहिताः शब्दे तदैव घटन्ते, यदि शब्दस्यानित्यत्वमङ्गीक्रियेत । तस्माच्छब्दस्यानित्यत्वमङ्गीकार्यम् । व्यावृत्तिर्ग्रन्थकृतैव कृतेति न क्रियते । अनुमानार्थमाविष्करोति — एतस्मिन्नित्या - दिना । एतस्मिन्निति । पक्षीकृतशब्दे ।
२१
नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वव्याप्यनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते नित्यत्वेनार्थान्तरता स्यात् । नित्यत्वस्य नित्यत्वव्याप्यत्वेऽपि नित्यत्वव्यतिरिक्तत्वे सति यन्नित्यत्वव्याप्यत्वं तद्रहितत्वात् । नित्यत्वto freefagease नित्यत्वव्याप्यत्वेन नित्यत्वाव्याप्यत्वे सति यन्नित्यनिष्ठत्वं तद्रहितत्वाच्च । न च व्याप्यव्यापकभावस्य भेदाधिष्ठानत्वात्कथं नित्यत्वस्य नित्यत्वव्याप्यत्वमिति युक्तम् । नित्यत्वस्य नित्यत्वभेदाभावेऽपि नित्यत्वात्यन्ताभाववद्वृत्तित्वरहितस्य नित्यत्वव्याप्यत्वस्योपपत्तेरिति । अतो नित्यत्वेनार्थान्तरतापरिहारार्थमेतदाकाशवृत्तित्वरहितग्रहणम् । पक्षीकृतशब्दस्य नित्यत्वे नित्यत्वस्यैतदाकाशवृत्तित्वेन तद्रहितत्वानुपपत्तेः ।
( आनं०) विशेषणकृत्यमाह - नित्यत्वव्यतिरिक्तेति । नित्यत्वस्य नित्यत्वव्याप्यत्वर हितेति विशेषणाभावान्नार्थान्तरतेत्यत आह- नित्यत्वस्येति । सम्बन्धरूपाया व्याप्तेर्भिन्नाधिकरण'स्वादेकस्मिन्नसम्भव इत्यत आह--न चेति । हेतुमाह - नित्यत्वस्येति । तदत्यन्ताभाववन्निष्ठात्यन्ताभावप्रतियोगित्वं तद्वयाप्तत्वम् । धूमस्यापि धूमध्वजात्यन्ताभाववन्निष्ठात्यन्ताभावप्रतियोगित्वमेव 'द्वायत्वमिति भावः । अनेन विशेषणेन कथमर्थान्तरता निरासोऽत्राह -- पक्षीकृतेति ।
( भुवन ० ) -- अथ प्रथमविशेषणं परित्यज्य व्यावृत्त्यचिन्तां करोति — नित्यत्वव्यतिरिक्तेत्यादि । कथमर्थान्तरता स्यादित्याह - नित्यत्वस्य नित्यत्वव्याप्येत्यादि । यद्यपि नित्यत्वं नाम 'धर्मो नित्यत्वव्याप्यो भवति, तथापि नित्यत्वव्यतिरिक्तत्वे सति यन्नित्यव्यव्याप्यत्वं तद्रहितोऽप्यु - पपद्यत एव । नित्यत्वव्यतिरिक्ततिविशेषणेन तस्य नित्यत्वव्याप्येभ्यः पृथक्कृतत्वात् । तद्वर्जने च पृथ
१ अत्र व पुस्तके 'उरितां इति तथा छ, द, पुस्तकयोः उद्धरित इति पाठो दृश्यते । 'उर्वरित इति समीचीनः पाठः संभाव्यते ।
Aho! Shrutgyanam