________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं नित्यत्वस्य नित्यत्वष्यतिरिक्तत्वे सति यन्नित्यत्वाव्याप्यत्वं तन्नास्तीति नित्येषु साध्यसिद्धिः । नित्यत्वन्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणमित्युक्तौ नित्यत्वे. न अर्थान्तरता, तां वारयति-आकाशत्तित्वरहितेति । आकाशवृत्तित्वरहितेत्यादि साध्योक्ती व्याप्तिभङ्गः । नित्येषु तदभावादत उक्तम्-एतदाकाशेति । शब्दस्य नित्यत्वसंदेहान्नित्यत्वस्यैतदाकाशवृत्तित्वं निश्चितं नास्तीति नित्येषु नित्यत्वमुक्तरूपमस्ति । अनित्येषु पुनरनित्यत्वमेवोक्तरूपमिति व्याप्तिसिद्धिः । पक्षस्य नित्यत्वे पक्षमात्रनिष्ठधर्मस्य नित्यत्वव्याप्तत्वान्नित्यत्वव्याप्तत्वरहितत्वव्याघातादनित्यत्वं पक्षे सिध्यतीति भावः । विवृणोति-एतस्मिन्नित्यादिना ।
८(भुवन०)-महाविद्यान्तरमाह-अयं शब्दः एतदाकाशत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वात् घटवदिति । अतः परं च पक्षं पक्षीकृत्य प्रवृत्तानां महाविद्यानामर्थसंग्राहिकाः कारिका महाविद्यान्तरेभ्यो ज्ञातव्याः । एष चाकाशश्च एतदाकाशौ । तयोर्युगलत्वेन वृत्तिर्येषां धर्माणां ते एतदाकाशवृत्तयः, तेषु तद्वत्तित्वं नाम धर्मः, तेन रहितः । नित्यत्वेन व्यतिरिक्ता नित्यत्वव्यतिरिक्ताः । नित्यत्वेन व्याप्यन्ते इति नित्यत्वव्याप्याः । नित्यत्वव्यतिरिक्ताश्च ते नित्यत्वव्याप्याश्च । तेषु नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वं धर्मः । तद्रहितश्च । नित्यत्वेन अव्याप्याः नित्यत्वाव्याप्याः। नित्येषु निष्ठा अवस्थानं येषां ते नित्यनिष्ठाः । नित्यत्वेनाव्याप्याश्च ते नित्यनिष्ठाश्च । तेषु नित्यत्वाव्याप्यनित्य. निष्ठत्वं नाम धर्मः। तद्रहितः । अत्र विशेषणत्रये पूर्वप्राच्यविशेषणद्वयस्य द्वन्द्वः । ततो द्विपदः कर्मधारयः । एतद्विशेषणत्रयविशेषिता ये शब्दत्वश्रावणत्वादयः तेषामाश्रयः पक्षीकृतः शब्द इत्यर्थः । अर्थतस्यानुमानस्य व्याख्या । एतस्मिन् पक्षीकृतशब्दे आकाशे च या वृत्तिः तत्त्वेन रहिताः पक्षे शब्दत्वश्रावणत्वाद्यो व्योग्नि अवर्तनात् शब्दे वर्तनाच युगलावृत्तयो विद्यन्ते एव । दृष्टान्ते च घटादौ स्वस्वनिष्ठा घटत्वादयः शब्दाकाशद्वयावर्तित्वात् युगलावर्तिन एव । नित्यानां च पक्षतुल्यस्वं वक्ष्यति । न तेन तेषु साध्यप्रसिद्धिर्विचार्या । अथ द्वितीयं विशेषणं व्याख्यायते । नित्यत्वेन व्याप्या आत्मत्वाकाशत्वपरमाणुत्वादयः ।
'व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते ।
व्यापकं तदतन्निष्ठं व्याप्यं तनिष्ठमेव हि ॥' इति वचनात्, यत्र यत्र आत्मत्वादयः, तत्र तत्र नित्यत्वम् । एवमात्मत्वादीनां नित्यत्वव्याप्यत्वोपपत्तेः । अत्र नित्यत्वं व्यापकम् , आत्मत्वादयो व्याप्याः, यथा अग्निापको धूमश्च व्याप्यः । एवं नित्यत्वमपि यत्र यत्र नित्यत्वं, तत्र तत्र नित्यत्वात्यन्ताभाववद्वत्तित्वरहितत्वमिति व्याप्त्या नित्यत्वव्याप्यमस्ति । परं नित्यत्वव्यतिरिक्तेति ग्रहणात् केवलनित्यनिष्ठधर्मेभ्यस्तत्पृथक्कृतम्। नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहिताश्च केवलानित्यनिष्ठा घटत्वपटत्वादयः, साधारणाश्च सत्त्वप्रमेयत्वादयो, नित्यत्वस्य पृथकृतत्वात् नित्यत्वं च । अथ तृतीयं विशेषणं व्याख्यायते । नित्यत्वाव्याप्यनित्यनिष्ठेति । नित्यनिष्ठा धर्मा द्विधा-नित्यत्वव्याप्या नित्यत्वाव्याप्याश्च । तत्र नित्य
१ तयो वर्तन्ते एवं इति छ पुस्तकपाठः ।
Aho ! Shrutgyanam