________________
महाविद्याविडम्बनम् |
तद्रहितत्वानुपपत्तिः । नित्येषु साध्यसिद्धयर्थ स्वेतरेत्युक्तम् । शब्देतर नित्यानित्यवृत्तित्वरहितानेकनिष्ठो धर्मः एकैकस्मिन्नित्ये "शब्दै कक नित्यान्यत्वात्यन्ताभावशब्दकै कनित्यवृत्तिरनेकनिष्ठोऽस्तीति भावः । स्वेतरविशेषणकृत्यमुपपादयति-- नित्यानित्यवृत्तित्वेत्यादिना ।
१९
७ ( भुवन० ) - अथ पुनरप्येतदेवानुमानं अनेतनिष्ठपदस्थाने अनेकनिष्ठपदग्रहणेनाहअयं शब्दः स्वेतरा नित्यनित्यवृत्तित्वेत्यादि । अत्रापि नित्यत्वात्यन्ताभावरूपमनित्यत्वं पक्षे सिध्यतीति भावः । अत्र चानित्यपदार्थेष्वनित्यत्वादिना साध्यसिद्धिर्द्रष्टव्या, न त्वेकैकानित्यनिष्ठ - घटत्वादिना । तस्यानेकनिष्ठत्वाभावात् । नित्यानां च पक्षतुल्यत्वार्थे स्वेतरपदसाफल्यं दर्शयतिअनित्यनित्यवृत्तित्वरहितेत्यादिना । अनित्यमात्रवृत्तेरिति । अनित्यत्वादेर्धर्मस्य नित्येषु व्याह - तत्वात् । नित्यमात्रवृत्तेश्चेति । नित्यत्वादेर्धर्मस्य । एकैकनित्यवृत्तेश्चेति । आत्मत्वाकाशत्वादेर्धर्मस्येति। पक्षतुल्यत्वार्थमिति । पक्षः शब्दः तत्तुल्याः तत्समाः । सर्वेऽपि नित्या इत्यर्थः । अयं भावः । यथा शब्द पक्षीकृत्य एवमेतदनुमानं प्रयुज्यते, तथा नित्यं गगनादिकमपि विपक्षं पक्षीकृत्य प्रयोत्र्यम् । अत एव विपक्षपक्षीकरणप्रवृत्तासु महाविद्यासु एतदनुमानं दर्शयिष्यतीति ॥ ७ ॥
८ अयं शब्दः एतदाकाशवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति । एतस्मिन्नाकाशे च वर्तन्ते ये धर्मास्तेषु एतदाकाशवृत्तित्वं धर्मः । नित्यत्वव्यतिरिक्तनिस्यत्वव्याप्येषु नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वं धर्मः । नित्यत्वाव्याप्यनित्यनिष्ठेषु च नित्यत्वव्याप्यनित्यनिष्ठत्वं धर्मः । एतदाकाशवृत्तित्वरहितञ्चासौ नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितश्च । स चासौ नित्यत्वाव्याप्यनित्य-मिष्ठत्वरहितच, तदाश्रय इत्यर्थः ।
८ ( आनं० ) – महाविद्यान्तरमाह - एतदाकाशति । एतस्मिन्पक्षे आकाशे च वृत्तिरहित एतदाकाशवृत्तिरहितः, स चायं नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वरहितत्र्च, सचासौ नित्यत्वव्याप्यत्वे सति नित्यनिष्ठत्वरहितश्च इत्येतदाकाशवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहितः, तस्याधिकरणमित्यर्थः । अयं शब्दोऽधिकरणमित्युक्ते मेयत्वादिनार्थान्तरतात आह— नित्यनिष्ठत्वरहितेति । नित्यनिष्टत्वरहिताधिकरणमित्युक्ते व्याप्तिभङ्गः, नित्येषु साध्या सिद्धेरत आह- नित्यत्वाव्याप्येति । नित्यत्वं नित्यव्यप्येति वक्ष्यति । तेन नित्यत्वस्य नित्यनिष्ठत्वरहितत्वाभावेऽपि नित्यत्वाव्याप्यत्वे सति यन्नित्यनिष्ठत्वं तन्नास्तीति नित्यत्वमेव नित्येषूक्तरूपमस्तीति साध्यसिद्धिः । नित्यत्वाव्याप्य नित्यनिष्ठत्वाधिकरणमित्युक्तौ नित्यत्वेन अर्थान्तरता, अत आह—- नित्यत्वाव्याप्यत्वरहितेति । नित्यत्वव्याप्यत्वरहित"नित्यत्वा व्याप्यनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते पुनरपि नित्येषु साध्यासिद्धिः । नित्यत्वस्य नित्यत्वव्याप्यत्वान्नित्यत्वव्याप्यत्वरहितत्वे सतीति विशेषणाभावादत आह— नित्यत्वव्यतिरिक्तेति ।
4
१' नित्यानित्यत्तित्वे' इति प्रतीकं मूले न दृश्यते । २ ' व्याप्यमिति ? स्यात् (?)
Aho! Shrutgyanam