________________
१८
आनन्दपूर्ण भुवनसुन्दरसूरिकृतटीकायुतं
नित्यत्वम् । एवं चोभयोरप्यविवादापन्नाः शब्दान्यत्वात्यन्ताभावादयोऽपि सिध्यन्तीत्यर्थान्तरता । अत्र शब्दस्य अनित्यत्वसिद्धिमाह - पक्षीकृतशब्दनित्यत्वे तत्रानेतन्निष्ठो घर्मो भवन्नित्यादि । पक्षीकृतशब्दस्य यदि नित्यत्वमङ्गीक्रियते तदाऽनेतदनित्यनिष्ठ इत्याद्ये विकल्पे नित्यानित्यवृत्तित्वरहितत्वव्याघातः । तस्य धर्मस्य नित्ये शब्देऽनित्ये च घटादौ वर्तनात् । द्वितीयेऽनेक नित्यवृत्तित्वरहितत्वव्याघात इति । अनतन्नित्यनिष्ठ इति द्वितीये कल्पे तस्य धर्मस्य नित्ये गगनादौ नित्ये एव च शब्दे वर्तमानत्वेन अनेकनित्यवृत्तित्वात् तद्रहितत्वव्याघातः स्फुट एवेति । तेन पक्षे नित्यत्वेति । तेन कारणेन पक्षे शब्दे नित्यत्वाभावरूपस्य अनित्यत्वस्य सिद्धिः । एवंविधश्च धर्मः शब्दे विचारितः सम् अनित्यत्वं वा, विश्वप्रतियोगिको घटशब्दान्योन्याभावादिर्वा । पूर्वोक्तसर्वविशेषणैः सह तस्य संवादात् । तस्य च शब्दे नित्ये स्वीक्रियमाणेऽनित्ये घटे नित्ये च शब्दे वर्तनात् नित्यानित्यवृत्तित्वरहितत्वं न स्यात्। तस्माच्छब्दस्यानित्यत्वं स्वीकार्यमेवेति । कुलार्कपण्डितैस्तु केनाभिप्रायेणेति । सोऽभिप्रायः कुशलतरैञ्चिन्त्यः । एतच्च महाविद्याविवरणटिप्पनेऽस्माभिरेव सप्रपञ्चं प्रपञ्चितमिति नात्र प्रपच्यते । यद्वा स्वेतरेति पदं स्पष्टीकरणार्थमेवेति ज्ञेयम् । अत्र चैकैकनित्यनिष्ठेकैकानित्यनिष्ठेत्यादि । एकैकनित्याः आकाशपरमाण्वादयः, तन्निष्ठास्तन्नित्यत्वाकाशत्वपरमाणुत्वादयः । एकैका नित्या घटपटादय:, तन्निष्ठास्तदनित्यत्वघटपटत्वादयः । ते च युगलावृत्तित्वेन नित्यानित्यवृत्तित्वरहिताः नानानित्यावृत्तयश्च तथा अनेतन्निष्ठाः शब्दादन्यत्र वर्तमानाश्च विद्यन्त एवेति तेषां सपक्षे प्रसिद्धत्वादप्रसिद्धविशेषणत्वमपि नास्तीति भावः । नित्यत्वानित्यत्वादीन्युपादायेति । अत्रादिपदेन तत्तन्नित्यमात्रनिष्ठतत्तदनित्यमात्रनिष्ठाकाशत्वघटत्वादिधर्मग्रहः ॥ ६ ॥
I
७ अयं शब्दः स्वेतरानित्यनित्यवृत्तित्वरहितानेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणं मेयत्वादिति । अनेतन्निष्ठपदस्थाने अनेकनिष्ठपदमेव पूर्वमहाविद्यावैलक्षण्यम् । अनित्यनित्यवृत्तित्वरहितानेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमित्युक्ते नित्येषु व्यभिचारः । अनित्यनित्यवृत्तित्वरहितस्य अनित्यमात्रवृत्तेर्नित्यैषु व्याहतत्वात् । नित्यमात्रवृत्तेरनित्येषु व्याहतत्वात् । नित्यमात्रवृत्तेश्च अनेकनिष्ठस्य अनेकनित्यवृत्तित्वग्रहणेन निरस्तत्वात् । एकैकनित्यवृत्तेश्वानेकनिष्ठग्रहणेन व्युदासात् । अतो नित्यानां विपक्षत्वव्युदासेन पक्षतुल्यत्वार्थ स्वेतरग्रहणम् । शेषं पूर्ववत् ॥ ७ ॥
७ ( आनं० ) – अयं शब्दः स्वेतरा नित्यवृत्तित्वरहितानेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमित्यत्रापि नित्यत्वात्यन्ताभावरूपमनित्यत्वं पक्षे सिध्यतीति भावः । ध्वनिभागेषु सिद्धसाधनत्वनिवृत्त्यर्थमयमित्युक्तम् | पक्षमात्रनिष्ठेन अर्थान्तरत्वं वारयति - अनेकनिष्ठेति । नित्यत्वेनार्थान्तरत्वनिरासाय - अनेकनित्यवृत्तित्वरहितेति । पक्षव्यतिरिक्तनित्यत्वात्यन्ताभावेनार्था - न्तरतां वारयति - नित्यानित्यवृत्तित्वरहितेति । पक्षीकृतशब्दनित्यत्वे तस्य नित्यानित्यवृत्तित्वेन
१' नित्यानित्यत्तित्व र हिते 'ति प्रतीकं मूलमहाविद्याडम्बने नोपलभ्यते ।
Aho! Shrutgyanam