SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १२ आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं र्माणामनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वेन तद्नाक्रान्तत्वानुपपत्तेः । पक्षेऽनित्यत्वाभ्युपगममात्रेण प्रकृतसाध्यार्थस्योपपन्नत्वेन न व्याघातः । पक्षवृत्तित्वाभावेन अनित्यत्वात्यन्ताभाववद्वृत्तिपक्षवृत्तित्वरहितयोः पक्षमात्रनिष्ठात्यन्ताभावपक्षान्योन्याभावयोः पक्षव्यतिरिक्तसकलवस्तुनिष्ठयोरुक्तरूपोपपन्नयोः प्रसिद्धत्वेन नाप्रसिद्धविशेषणतापि । एवं महाविद्यान्तरेष्वपि यथासंभवं पक्षमात्रनिष्ठात्यन्ताभावपक्षान्योन्याभावावुपादायाप्रसिद्धविशेषणत्वं निरसनीयम् । २ ( आनं० ) - प्रयोगान्तरमाह - अयमिति । अनित्यत्वात्यन्ताभावो यस्य सोऽनित्यत्वात्यन्ताभाववान्, तत्र वृत्तिर्येषां तेऽनित्यत्वात्यन्ताभाववद्वृत्तयः, ते एवैतत्पक्षीकृतशब्दधर्माः अनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मास्तेषु तथात्वं धर्मः तदत्यन्ताभाववान्, तदनाक्रान्तः तस्याधिकरणमाश्रय इत्यर्थः । शब्दः उक्तसाध्यवानित्युक्तपक्षान्योन्याभावस्य पक्षवृत्तित्वाभावादनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्तत्वमस्ति, तदधिकरणं च शब्दान्तरभिति भागे सिद्धसाधनता, अत उक्तमू- अयमिति । अयं शब्दोऽधिकरणभित्युक्ते प्रमेयत्वादिना अर्थान्तरता, अत उक्तम् - एतद्धर्मत्वानाक्रान्तेति । तथोक्ते व्याघातः स्यादत उक्तम्-अनित्यत्वात्यन्ताभाववद्वृच्येतद्धर्मत्वानाक्रान्तेति । अनित्यत्वात्यन्ताभाववद्वृत्तित्वानाक्रान्ताधिकरणमित्युक्तौ नित्येषु साध्यासिद्धिः । नहि नित्यानामुक्तधर्माधिकरणत्वं, नित्यत्वस्यैवानित्यत्वात्यन्ताभावत्वादत उक्तम्-एतद्धर्मानाक्रान्तेति । अनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्त एतद्धर्मत्वरहितो वा अनित्यत्वात्यन्ताभाववद्वृत्तित्वरहितो वा । आद्यः पक्षे व्याहतो, द्वितीयस्त्वनित्यत्वमन्तर्भाव्य सिध्यति । पक्षस्यानित्यत्वाभ्युपगममात्रेण प्रतिज्ञार्थस्योपपत्तेरिति महाविद्यार्थः । संक्षेपतो व्याचष्टे-अत्र चेति । तथापि कथमनित्यत्वमत्राह - एवेति । एतदेव कुतोऽत्राह - शब्दस्येति । एतद्धर्मत्वानाक्रान्तस्यैतस्मिन्साधने व्याघातोऽत्राह - पक्ष इति । पक्षस्य नित्यत्वे पक्षनिष्ठस्यानित्यत्वात्यन्ताभाववद्वृत्तित्वाभावेन तद्विशिष्टतद्धर्मत्वानाक्रान्तत्वमुपपन्नमित्यर्थः । शब्दस्यानित्यत्वसिद्धेः प्रागुक्तरूपधर्मासिद्धेरप्रसिद्धविशेषणतात्राह - पक्षेति । पक्षवृत्तित्वाभावे सत्यनित्यत्वात्यन्ताभाववद्वृत्त्येतद्वृत्तित्वं नास्ति । विशेष्यैतद्धर्मत्वाभावेऽपि विशिष्टाभावसाध्यसिद्धिरित्यर्थः । तथापि कथमप्रसिद्धविशेषणता परिहारोऽत्राह - पक्षवृत्तित्वरहितयोरिति । शब्दो नित्यत्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणमित्युक्ते पक्षीकृतशब्दमात्र निष्ठधर्मात्यन्ताभावस्यानित्यत्वव्यतिरिक्तत्वादेतद्धर्मत्वराहित्याच्च शब्दान्त रतदधिकरणमिति भागे सिद्धसाधनतापरिहारायोक्तमयमिति । २ ( भुवन० ) - अथ महाविद्यान्तरमाह - अयं शब्दः अनित्यत्वात्यन्ताभावेत्यादि । इयं च महाविद्या 'विच्छिद्य वाभाववदन्वितेन' इति कारिकापदं महाविद्यास्थितं समाश्रित्य पक्षपक्षीकरन प्रवृत्ता । अनित्यत्वस्य अत्यन्ताभावोऽनित्यत्वात्यन्ताभावो नित्यत्वं, तद्विद्यते यस्य सोऽनित्यत्वात्यन्ताभाववान् नित्यपदार्थः, तत्र वृत्तिर्येषां तेऽनित्यत्वात्यन्ताभाववद्वृत्तयः, त एवैतत्पक्षीकृतशब्द १ थेस्योपपत्तेर्न व्या' इति ज पुस्तकपाठः । २ ' स एवेति' इत्येतत्प्रतीकं मूलमहाविद्याविडम्बनादर्श - पुस्तकेषु न विद्यते । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy