________________
महाविद्याविडम्बनम् । निष्ठानित्यनिष्ठधर्मवत्त्वमनधिगम्य पक्षतदितरवृत्तित्वानाक्रान्तानित्यनिष्ठधर्मवत्त्वं शक्याधिगमम् । पक्षव्यतिरिक्तमात्रवृत्तिधर्मस्य पक्षे व्याघातेनोपसंहर्तुमशक्यत्वात् । तदिदं व्यापकप्रतीतेरनित्यत्वादिकमनालम्ब्यानुपपत्तिरूपमपर्यवसानमाहुः।
(आनं०)-प्रथमप्रयोगात्पक्षमात्रनिष्ठधर्मसिद्धावपि कथमनित्यत्वसिद्धिरत्राह-अयं चेति । स्वस्वेतरवृत्तित्वानाक्रान्तानित्यनिष्ठस्ववृत्तिरहितो वा स्वमात्रवृत्त्यनित्यनिष्ठो वा । आद्यो व्याहत इति द्वितीयः सिध्येत् । तस्यानित्यत्वं विना कानुपपत्तिरत्राह-नहीति । पक्षमात्रनिष्ठधर्मात्यन्ताभाव. स्योक्तरूपत्वेऽपि न तेन साध्यपर्यवसानं शक्यशङ्कमित्याह-नापीति । हेतुमाह-पक्षेति । प्रमेयत्वा. दिक पक्षे स्वव्यापकं साधयंस्तदपर्यवसानेन वाद्यभिमतं साधयतीति महाविद्यावादिनः सङ्गिरन्ते । त्वया पुनर्व्यापकप्रतीतेरनित्यत्वादिकमनालम्ब्य अनुत्पत्तिरन्यैवोक्तेत्यत आह- तदिदमिति ।।
(भुवन०)-प्रथमप्रयोगात्पक्षमात्रनिष्ठधर्मसिद्धावपि कथं नित्यत्वसिद्धिरत्राह-अयं चेति। स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठः स्ववृत्तित्वरहितो(वा )स्वमात्रवृत्त्यनित्यनिठो वा । प्रथमो विकल्पः पक्षे व्याहत इति द्वितीयः सिध्येत् । अनित्यत्वं विना तस्य कानुपपत्तिरित्यत आह-न हीति । पक्षेशब्देऽनित्यत्वमज्ञात्वा पक्षमात्रनिष्ठस्य शब्दत्वादे निन्यनिष्ठत्वं ज्ञातुं शक्यमित्यर्थः । पूर्वमनित्यत्वं विनाऽनित्यनिष्ठत्वं नोपपद्यते इत्युक्तं, इदानीं पक्षमात्रवृत्तिधर्मस्यानित्यनिष्ठत्वं विना पक्षतदितरवृत्तित्वानाक्रान्तानित्यनिष्ठत्वमपि नोपपद्यत इत्याह-नापि पक्षे पक्षमात्रेति । अयं पक्षमात्रनिष्ठो धर्मः शब्दत्वादिरनित्यनिष्ठ इत्येवमज्ञात्वा पक्षतदितरवृत्तित्वानाक्रान्तानित्यनिष्ठधर्मवत्त्वं पक्षे नैव शक्यमधिगन्तुमित्यर्थः ।
ननु सपक्षमात्रवृत्तीनां घटत्वादिधर्माणां सपक्षमात्रवृत्तित्वेन युगलावृत्तित्वात् यथोक्तलक्षणोपपन्नानां संभवात्ते एव पक्षे साधयिष्यन्ते, किं पक्षमात्रनिष्ठानित्यनिष्ठधर्मेत्यादिचिन्तयेत्याशङ्कय हेतुमाह-पक्षव्यतिरिक्तेति । केवलसपक्षवृत्तिधर्मस्य घटत्वाकाशत्वादेः। पक्षे शब्दे । उपंसहतुमिति । उपपादयितुमशक्यत्वादितिभावः । तदिदमित्यादि। स्वस्वेतरेत्यादेर्व्यापकस्य साम्यस्य प्रतीतेः अनित्यत्वादिकमनालम्ब्य अनित्यत्वं विना । अपर्यवसानमाहुरिति । अनित्यत्वं विना एवंविधसाध्यस्य विश्रान्तिन भवतीति भावः ॥ १॥
_२ अयं शब्दः अनित्यत्वात्यन्ताभावववृत्त्येतद्धर्मत्वानाक्रान्ताधिकरणं मेयत्वादिति । अस्यां वक्ष्यमाणासु च महाविद्यासु घटो दृष्टान्तः । अत्र चानित्यत्वात्यन्ताभावववृत्तयो ये एतद्धर्मास्तेष्वनित्यत्वात्यन्ताभावववृत्त्येतद्धर्मत्वं नाम धर्मः। तदत्यन्ताभाववान् धर्मः पक्षे साध्यते । स च पक्षेऽनित्यत्वमनधिगम्य न शक्योऽधिगन्तुम् । शब्दस्यानित्यत्वरहितत्वे सर्वेषामपि शब्द्ध
१ अनुपपत्तिः इति स्यात् (?)। २ "त्वं परिज्ञातुं इति च पुस्तकपाठः ।
Aho ! Shrutgyanam