________________
महाविद्याविडम्बनम् ।
तस्या
1
धर्मा अनित्यत्वात्यन्ताभाववद्वृत्येतद्धर्माः तेषु तथात्वं धर्मः, तदनाक्रान्तः तदत्यन्ताभाववान्, धिकरणमाश्रय इत्यर्थः । अयं भावः - ये नित्यपदार्थवर्तिनः शब्दस्य धर्मा मेयत्वादयस्तेषां भावस्तत्त्वं, तदत्यन्ताभाववान् धर्मः शब्दे साध्यते । स च शब्दत्व श्रावणत्वादिः शब्दस्य नित्यत्वेऽङ्गीक्रियमाणे नित्यवृत्त्येतद्धर्मत्वानाक्रान्तो न भवेत् । तस्माच्छब्दस्यानित्यत्वमङ्गीकरणीयमेवेति । अयमितिपदं विना सामान्येन शब्दः उक्तसाध्यवानिति प्रतिज्ञायां सर्वशब्दपक्षीकरणे परेण च दूषणार्थमेकस्यैव कस्यचिच्छब्दस्य पक्षत्वे शङ्किते परविवक्षितपक्षान्योन्याभावस्य पक्षवृत्तित्वाभावादनित्यत्वात्यन्ताभावववृत्त्येतद्धर्मत्वानाक्रान्तत्वमस्ति तदधिकरणं च शब्दान्तरमिति भागे सिद्धसाधनता स्यात् । अत उक्तमयमिति । इयं च व्यावृत्तिरग्रेऽपि सर्वत्र ज्ञेया । ग्रन्थकृता तु ग्रन्थगौरवभयान्नोक्ता । अयं शब्दोऽधिकरणमित्युक्ते मेयत्वादिना अर्थान्तरता, तदुक्तमेतद्धर्मत्वानाक्रान्तेति । तथोक्ते च व्याघातः । उक्तमनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्तेति । अनित्यत्वात्यन्ताभाववद्वृत्तित्वानाक्रान्ता • धिकरणमित्युक्ते' च न नित्येषु साध्यप्रसिद्धिः । न हि नित्यानामुक्तधर्माधिकरणत्वम्, नित्यवृत्ते - यस्य कस्यचिदपि नित्यत्वादेर्धर्मस्या नित्यत्वात्यन्ताभाववद्वृत्तित्वेन तद्नाक्रान्तत्वस्यासंभवात् । अत उक्तमेतद्धर्मत्वानाक्रान्तेति । अनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्तः एतद्धर्मत्वरहितो वा, अनित्यत्वात्यन्ताभाववद्वृत्तित्वरहितो वा । आद्यः पक्षे व्याहतः सपक्षे चोपयोगी । द्वितीयस्त्वनित्यत्वमन्तर्भाव्य सिद्धयतीति शब्दस्यानित्यत्वसिद्धिरिति । अस्यां वक्ष्यमाणासु च महाविद्यासु घटो दृष्टान्त इति । उपलक्षणं चैतत् । तेन पक्षं पक्षतुल्यं च मुक्तत्वाऽन्ये सर्वेऽपि पदार्था घटाकाशादयः सर्वमहाविद्यासु दृष्टान्तीकार्याः । अत्र चेत्यादिना संक्षेपतः प्रयोगार्थं व्याचष्टे । अत्र च कथमनित्यत्वमित्यत आह- स चेति । अत्र हेतुमाह - शब्दस्येति । एतद्धर्मत्वानाक्रान्तस्यैतस्मिन् साधने व्याघातः स्यादिति तत्परिहारमाह — पक्षेऽनित्यत्वाभ्युपगमेति । पक्षस्यानित्यत्वे पक्षनिष्ठस्याप्यनित्यत्वात्यन्ताभाववद्वृत्तित्वाभावेन अनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्तत्वमुपपन्नमेवेति न व्याघातः । अप्रसिद्धविशेषणतां परिहरति — पक्षवृत्तित्वाभावेनेति | पक्षमात्रनिष्ठानां शब्दत्वादीनां योऽत्यन्ताभावः, पक्षस्य शब्दस्य योऽन्योन्याभावश्च, तयोः पक्षव्यतिरितसकलभावनिष्ठयोः प्रसिद्धत्वेन नाप्रसिद्ध विशेषणतेति संबन्धः । तयोर्धर्मयोः किंविशिष्टयोः । अनित्यत्वात्यन्ताभाववद्वृत्तिपक्षवृत्तित्वरहितयोः । अनित्यत्वात्यन्ताभाववान् नित्यः पदार्थः, तत्र वृत्तिः, पक्षे शब्दे च वृत्तिः । अनित्यत्वात्यन्ताभाववद्वृत्तिश्च पक्षवृत्तिश्च अनित्यत्वात्यन्ताभावववृत्तिपक्षवृत्ती । तयोर्भावस्तत्त्वम् । तेन रहितयोः । केन हेतुना । पक्षवृत्तित्वाभावेन । पक्षे या वृत्तिः तत्त्वाभावेन । न हि तौ धर्मों पक्षे वर्तेते । पक्षमात्रनिष्ठानामेव पक्षे वर्तनात् । तदत्यन्ताभावस्य तु पक्षादन्यत्रैव वर्तनात् । पक्षान्योन्याभावस्यापि च पक्षादन्यत्रैव वृत्तेः । न हि पक्षान्योन्याभावः पक्षे वर्तते । स्वान्यत्वरूपस्य स्वान्योन्याभावस्य स्वस्मिन्नवृत्तेरिति भावः । पुनः किंरूपयोः । उक्तरूपोपपन्नयोः । अनित्यत्वात्यन्ताभाववद्वृत्त्येतद्धर्मत्वानाक्रान्तरूपोपपन्नयोरित्याशयः । यद्यप्येवंविधरूपयोराकाशादौ नित्ये वर्तनादनित्यत्वात्यन्ताभाववद्वृत्तित्वाक्रान्तत्वं नास्ति, तथाप्येतद्विशिष्टै -
१ "त्युक्ते च नित्येषु साध्य इति च पुस्तकपादः ।
Aho! Shrutgyanam
१३