________________
महाविद्या विडम्बनम् ।
व्यापकः साध्यव्यापकञ्चास्ति । तथा पक्षे विमतहिंसारूपे विपक्षे देवपूजादौ च स उपाधिन वर्तते । पक्षविपक्षयोर्विधेयत्वेन निषिद्धत्वाभावात् । एतावता चोपाधेः पक्षविपक्षी व्यावत्यौं भवतः । यत्र चोपाधेः पक्ष एव व्यावर्त्यः स्यान्न तु विपक्षः, तत्रोपाधेः पक्षेतरत्वं दोषः । यतः पक्षेतरस्योपाधित्वे अग्निमानयं पर्वतो धूमवत्त्वादित्यत्रापि पर्वतेतरत्वमुपाधिः स्यात् । तथा च सर्वानुमानोच्छेदः प्रसज्येत । तस्मादत्र महाविद्यानुमाने विपक्षस्यैवाभावात् विपक्षरूपव्यावासंभवेन यः कश्चनोपाधिरुत्पादयिष्यते स पक्षेतरत्वदोषप्रस्तो भविष्यतीति महाविद्यानुमानोपाधेरुपाधित्वानुपपत्तौ सत्यां किमित्याह-व्याप्यत्वासिद्धरपि निरस्तत्वादिति । इदमत्र तत्त्वम्-औपाधिकव्याप्तिको व्याप्यत्वासिद्धः। स चासिद्धमेद एव । अत्र चोपाधेरभावाद्व्याप्यत्वासिद्धेरप्यभाव एवेति महाविद्याया असिद्धता निरस्ता । अथ विरुद्धत्वादिदोषनिरासाय हेतुमाह-केवलान्वयीत्यादि । केवलान्वयिनो महा. विद्यानुमानस्य यत्साध्यं तदभावस्य यदप्रसिद्धत्वम् । अयं भावः-साध्याभावो हि विपक्षे भवति । अत्र च केवलान्वयित्वेन विपक्षाभावात्साध्याभावाप्रसिद्धिः । तेन हेतुना किमित्याह-साध्याभाव
मात्रवृत्तित्वेति । अत्र मात्रशब्दोऽपरव्यवच्छेदी । ततः साध्याभाववति विपक्षे एव यो वर्तते न तु सपक्षे, एतावता विरुद्धः । 'पक्षविपक्षमात्रवृत्तिविरुद्धः' इति तल्लक्षणात् । साध्याभाववद्वत्तित्वेति । साध्याभाववति विपक्षे वर्तते । अत्र मात्रशब्दाभावात्सपक्षेऽपि वर्तते । तथा चानैकान्तिकः, 'पक्षत्रयवृत्तिरनैकान्तिकः' इति तल्लक्षणात् । साध्याभावसाधकसमानबलेति । साध्याभावसाधकः सन् पूर्वहेतोः समानबलः। एतावता सत्प्रतिपक्षापरपर्यायः प्रकरणसमः, 'तुल्यबलहेतुसाधितसाध्यव्यतिरेकः प्रकरणसमः' इति तल्लक्षणात् । साध्याभावसाधकाधिकवलेति । एतावतानुमानबाधितकालात्ययापदिष्टः । यत्र पूर्वस्मादनुमानादुत्तरमनुमानं समानबलं स्यात् तत्र प्रकरणसमत्वम् , यत्र च पूर्वानुमानादपरकृतानुमानमधिकबलं स्यात्तत्रानुमानबाधितकालात्ययापदिष्टत्वम्, इति प्रकरणसमानुमानबाधितकालात्ययापदिष्टयोर्भेदः । प्रतिपक्षबाधानामिति । प्रतिपक्षः प्रकरणसमः । बाधः कालात्ययापदिष्टः । एतावता असिद्धत्वादिहेत्वाभासपञ्चकं महाविद्यायां निरासे । ननु तथापि सकलदोषविरहः कथं, तर्कविरहादीनामपि दूषणत्वादित्याशङ्कयाह-विपक्षाभावेनेति । अत्र हि विपक्षाभावेन हेतोर्या विपक्षवृत्तित्वाशङ्का तस्या अप्यभावः एव, तेन कारणेन । तन्निवृत्यर्थमिति । विपक्षवृत्तित्वाशङ्कानिवृत्त्यर्थम् । तर्काकाङ्खाभावेनेति । तर्काकाङ्काया योऽभावस्तेन । तर्कविरहेत्यादि। अयमाशयः-प्रमेयत्वं हेतुर्भवतु, महाविद्याप्रकारप्रोक्तं साध्यं मा भूत् , विपक्षे किं बाधकम् । एवंविधाशङ्कायां तर्को विलोक्यते यथा-अग्निमानयं पर्वतो धूमवत्त्वात् महानसबदित्यत्र धूमवत्त्वं भवतु, वह्निमत्त्वं मा भूत् , विपक्षे किं बाधकमित्याशङ्कायां विपक्षबाधकतर्कः प्रयोज्यः । तथाहि-यद्यनग्निः स्यात्तर्हि निधूमः प्रसज्येत, यथा जलाश्रयादिः, इति विपक्षबाधकतर्केण धूमवत्त्वहेतौ विपक्षवृत्तित्वाशङ्काया निरासः । यत्र च विपक्षबाधकस्य तर्कस्याभावः, तत्र तर्कविरहदूषगं स्यात् । तदप्यत्र न । विपक्षस्यैवाभावादित्यर्थः ।
। सा चेयं महाविद्या बहुप्रकारा-काचिदन्वयव्यतिरेकिणः पक्षं पक्षीकृत्य प्रवर्तते, काचित्सपक्षं, काचिद्विपक्षं, काचित्साध्यं, काचित्साध्याभावमित्यादि । (भुवन०)-अथ ग्रन्थकारो महाविद्यायाः स्वरूपं निरूप्य तत्प्रकारानाह-सा चेयं महा
Aho! Shrutgyanam