________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं विद्या बहुप्रकारेति । काचिदन्वयव्यतिरेकिण इति । अनित्यः शब्दः कृतकत्वादित्यादेर्मुख्यानुमानस्यान्वयव्यतिरेकिणः पक्षं शब्दादिकं पक्षीकृत्य प्रवर्तते इत्यर्थः । साध्याभावमित्यादि । साध्य विवक्षितमनित्यत्वादि, तस्याभावः साध्याभावः । अनित्यत्वादिविपरीतं नित्यत्वादिसाध्यमित्यर्थः । अत्र चादिशब्देन पक्षमात्रनिष्ठं धर्म, सपक्षमात्रनिष्ठं धर्म, विपक्षमात्रनिष्ठं च धर्म पक्षीकृत्य प्रवर्तमाना महाविद्या गृह्यन्ते ।
१ तत्राद्या यथा-शब्दोऽनित्यः कृतकत्वादित्यत्रान्वयव्यतिरेकिणि अयं शब्दः स्वस्वेतरवृत्तित्वानधिकरणानित्यनिष्ठाधिकरणं मेयत्वाद्धटवदिति।
१ (भुवन०)-तत्र ‘पक्षापक्षगतादन्यत्साध्यवद्वृत्तिपक्षगम्' इति कुलार्कपण्डितनिर्मितमहाविद्याग्रन्थस्थं कारिकार्धमुद्दिश्य पक्षं पक्षीकृत्य या महाविद्या प्रवर्तते प्रथमं तामाह-अयं शब्दः स्वस्वेतरवृत्तित्वेत्यादि । स्वशब्देन पक्षीकृतः शब्दः परामृश्यते, स्वेतरशब्देन च पक्षीकृतशब्दादन्ये सर्वेऽपि पदार्थाः । स्वश्च स्वेतरे च स्व वेतरे । तेषु वृत्तिर्वर्तनं येषां धर्माणानभिधेयत्वप्रमेयत्वादीनां, ते स्वस्वेतरवृत्तयः । तेषां भावः स्वस्वेतरवृत्तित्वम् । तेन अनाक्रान्तस्तेनानाश्रितः । अनित्ये निष्ठा अवस्थानं यस्य सोऽनित्यनिष्ठः । स्वस्वेतरवृत्तित्वानाक्रान्तश्चासौ अनित्यनिष्ठश्च तस्य धर्मत्याविकरणमाश्रय इति विग्रहः । शब्दोऽधिकरणमित्युक्ते शब्दत्वनित्यत्वाद्यधिकरणत्वसिद्ध्या अर्थान्तरत्वं स्यात्, तन्निवृत्त्यर्थमनित्यनिष्ठेत्युक्तम् । शब्दोऽनित्यनिष्ठाधिकरणमित्युक्ते च मेयत्वादिना अर्थान्तरता स्यात् । अत उक्तं स्वेतरवृत्तित्वानाक्रान्तानित्यनिष्ठाधिकरणमिति । एवमप्युक्ते चाप्रसिद्धविशेषणता। पक्षमात्रनिष्ठानित्यत्वसिद्धेः पूर्वमेवंभूतार्थस्य पक्षादन्यत्र घटादौ दृष्टान्तीभूतेऽसंभवेनाप्रसिद्धिः, अत उक्तं स्वेति । पक्षव्यतिरिक्तेषु पक्षतदितरवृत्तित्वरहितो धर्मः पक्षान्योन्याभावः सर्वत्रास्तीति नाप्रसिद्धविशेषणता । शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्येतावत्येवोच्यमाने व्याघातः । यस्य कस्यचिदपि शब्दधर्मस्य शब्दतदितरवृत्तित्वानाक्रान्तत्वस्यासंभवात् । यस्य कस्यचिदपि शब्दस्य शब्दत्वाश्रयत्वेन शब्दत्वात् । शब्दान्तरापेक्ष्या च शब्देतरत्वात् । अत उक्तं अयमिति । तथा च न व्याघातः । एतच्छब्दमात्रवृत्तर्यस्य कस्यचिदपि एतच्छब्दत्वादेर्धर्मस्यैतस्मिन्नेव शब्दे पक्षीकृते वर्तनादन्यत्र चावर्तनादिति । तस्माच्छब्दविशेषस्य अनित्यत्वं प्रसाध्य सर्वशब्दानामपि तदृष्टान्तावष्टम्भेन तत्साधनीयमिति । स्वस्वेतरवृत्तित्वानाक्रान्ताऽनित्यनिष्ठश्च धर्म एतच्छब्दत्वादिः पक्षेऽनित्यत्वं विना न संभवत्येव, तेन शब्दानित्यत्वसिद्धिः । सपक्षे च सर्वत्र पक्षान्योन्याभावादिधर्मो ज्ञेयः ॥
यत्पुनरत्र कैश्चिदुक्तं स्वस्वेतरवृत्तित्वानाक्रान्तत्वं नाम स्ववृत्तित्वविशि. ष्टस्वेतरवृत्तित्वात्यन्ताभावः । विशिष्टं च न विशेषणविशेष्याभ्यामन्यत्किश्चित् । विशिष्टाभावोऽपि विशेषणाभावविशेष्याभावोभयाभावव्येभ्यो न व्यतिरिक्तः कश्चित् । तेन स्ववृत्तित्वविशिष्टस्वेतरवृत्तित्वाभावःस्ववृत्तित्वाभावो वा स्यात्, स्वेतरवृत्तित्वाभावो वा, उभयोरभावद्वयं वा । आये स्ववृत्तित्वानाकान्तस्वेतरवृत्त्यनित्यनिष्ठधर्मवान्पक्षः इति प्रतिज्ञार्थः स्यात् । तथा च व्याघातः । न हि पक्षवृत्तित्वरहितः पक्षे वर्तते इति संभवति । द्वितीये च स्वे.
Aho ! Shrutgyanam