________________
श्री सुन्दरसूरिकृती कायुतं
भावाधिकरणविपक्षरूपव्यावर्त्यासम्भवेन यस्य कस्यचिदुपाधित्वेनाभिधीयमानस्यावश्यकंपक्षेतैरत्वदोषग्रस्तत्वेनोपाधित्वानुपपत्तौ व्याप्यत्वासिद्धेरपि निरस्तत्वात् । केवलान्वयिनि साध्याभावाप्रसिद्धत्वेनैव च साध्याभाववन्मात्रवृत्तित्व साध्याभाववद्वृत्तित्व साध्याभावसाधकसमानबलसाध्याभावसाधकाधिकबलरूपाणां विरुद्धत्वानैकान्तिकत्वर्मेतिपक्षबाधानामप्यनुपपत्तेः । विषक्षाभावेन च विपक्षवृत्तित्वशङ्कासंभवेन तन्निवृ तर्काकाङ्क्षाभावेन तर्कविरहादीनामप्यदूषणत्वादिति ।
४
( भुवन० ) -- खण्डनीयस्त्ररूपानिरूपणे खण्डनरूपविडम्बनं निरूपयितुं न शक्यम् । अतो ग्रन्थकारः प्रथमं महविद्यां विवक्षुस्तल्लक्षणमाह- केवलान्वयिनि व्यापके प्रवर्तमानो हेतुरित्यादि ।
1
तुर्महाविद्या उच्यते । किं कुर्वाणः । प्रवर्तमानः । कस्मिन् । केवलान्वयिनि व्यापके । महाविद्यासाध्ये इत्यर्थः । किं कुर्वन् । साधयन् । किं कर्म । अन्वयव्यतिरेकिसाध्यविशेषम् | अन्वयश्च व्यतिरेकश्चान्वयव्यतिरेकौ । तौ विद्येते यस्य सोऽन्वयव्यतिरेकी, अनित्यः शब्दः कृतकत्वादित्यादेर्मूलानुमानस्य हेतुः । तस्य साध्यविशेषमनित्यत्यादि । तच्च किंविशं, वाद्यभिमतम् । कस्मात्साधयन । पक्षे व्यापकेति । पक्षे शब्दाद घटात्मादौ वा महाविद्या संबन्धिनि । व्यापकं साध्यं महाविद्यायाः । तस्य प्रतीतिः परिज्ञानं तस्या अपर्यवसानमनुपपत्तिः, तद्बलात् । इदमत्र हृदयम् - अयं शब्दः स्वस्वेतरवृत्तित्वानधिकरणानित्यनिष्ठधर्मवान् इत्यत्रैवंविधं महाविद्यासाध्यं शब्दे तदैव स्याद्यदि शब्दस्यानित्यत्वं भवेत्, सान्यथा । तस्माच्छब्दस्यानित्यत्वं स्वीकर्तव्यमित्येवमनुपपत्तिबलात् वादिनोऽभिमतमनित्यत्वादिरूपं पश्यं साधयन् हेतुर्महाविद्योच्यते इति संटकः । महाविद्या हेतोर्महाविद्यात्वं किमुच्यते इत्याकाङ्क्षास. - तस्य च महाविद्यात्वमिति । तस्य महाविद्याहेतोर्महाविद्यात्वमसिद्धत्वविरुद्धत्वादिसकलरहः । असिद्धत्वादिदोषविरहे हेतूनाह — प्रमेयत्वादीनामिति । मेयत्वादयो महाविद्याहि निश्चितं पक्षे वर्तन्ते इति तेषां पक्षधर्मत्वासिद्धेरसंभव एव । एतावता महाविद्याहेतोः धर्मत्वासिद्धत्वमसिद्धस्याद्यो भेदो निराकारि । अथासिद्धद्वितीयभेदो व्याप्यत्वासिद्धत्वं तदु
याम...
दोष
हेत
पक्ष
पिनाय हेतुमाह- केवलान्वयिनीति । केवलान्वयिनि महाविद्याहेतौ साध्यं महाविद्या साध्यं, तस्य योऽभावस्तस्याप्रसिद्धौ । कोऽर्थः । महाविद्यासाध्यस्य केवलान्वयित्वेन क्वाप्यभावो नास्ति । ततः साध्याभावाप्रसिद्ध सत्याम् । साध्याभावाधिकरणेति । साध्यं महाविद्यासाध्यं तस्य योऽभावः, तस्याधिकरणं यो विपक्षः, तद्रूपव्यावर्त्यस्यासंभवेन यस्य कस्यापि दीयमानस्योपाधेरवश्यभावी यः पक्षेतरत्वदोषः, तद्भस्तत्वेन । अयमाशयः - ' साधनाव्यापकः साध्यव्याप्तिक उपाधि:' इत्युपाधिलक्षणम् । स चोपाधिः सपक्षे दीयते, तथा पक्षे विपक्षे चावर्तमानो विलोक्यते, यथा-विमता हिंसा अधर्मसाधनं, हिंसात्वात्, म्लेच्छहिंसावदित्यत्र म्लेच्छहिंसायां निषिद्धत्वमुपाधिः । अयं च साधना
デ
१ " वश्यप' इति ज पुस्तकपाठः । २ 'तरत्वादिदों' इति ज पुस्तकपाठ । ३ ' साध्याभाववद्वृत्तित्व ' इति पदं ज पुस्तके नास्ति । ४ 'त्वसत्प्रतिपक्षत्ववा' इति ज पुस्तके ५ 'त्याशङ्कायामाह इति च पुस्तकपाठः ।
Aho! Shrutgyanam