________________
३
महाविद्याविडम्बनम् । सर्वत्रैव यथार्थसिद्धियुगलावृत्तिर्विचार्या विधे- .
___ त्याद्यं सर्वमवेक्षणीयमखिलप्रौढानुमानेष्त्रिह ॥ ४ ॥ अत्र महाविद्यानुमानेषु यत् शब्दानित्यता साध्यते तदुपलक्षणम् । तेनानेन प्रकारेण स्वचित्तेप्सितं नित्यत्वानित्यत्वसत्त्वासत्त्वपौरुषेयत्वापौरुषेयत्वसकर्तृकत्वाकर्तृकत्वादि सर्व साधनीयम् । तत्र शब्दस्यानित्यतासाधनायानुमानं क्रियते । तथाहि-अयं शब्दः स्वस्वेतरवृत्तित्वानधिकरणानित्य. निष्ठधर्मवान् , मेयत्वात्, घटवत् । अथानेनैवानुमानेन श्रुतेः पौरुषेयत्वं साध्यते । तथाहि-श्रुतिः स्वस्वेतरवृत्तित्वरहितपौरुषेयनिष्ठाधिकरणं, मेयत्वात्, घटादिवत् । एवमनेन प्रकारेणान्यदपि सर्वानुमानैः सर्व साधनीयम् । दृष्टान्ताय च केवलान्वयीति । अत्र महाविद्यानुमानेषु सर्वे नित्या अनित्याश्च पदार्थास्तद्धर्माश्च दृष्टान्तीकार्याः । पक्षं पक्षतुल्यं च वर्जयित्वा पक्षतुल्यानां पक्षवत्सन्दिग्वसाध्यवत्त्वात् । पक्षे च स्वसाध्यसाधने तद्वदेव । पक्षतुल्येष्वपि तत्साध्यसिद्धेः । अत्र च सर्वेऽपि सपक्षाः कुत इत्याशङ्कायां केवलान्वयीत्युक्तम् । महाविद्याहेतोः केत्रलान्वयित्वात, केवलान्वयिनि विपक्षाभावात्, सर्वेऽपि पदार्थाः सपक्षा एव । सर्वत्रवेत्यादि । सर्वत्र महाविद्यानुमानेषु प्रायो युगलावृत्तिविचार्या त्रिधा । तथाहि-यो धर्मः स्वस्मिन्नेव वर्तते न स्वेतरस्मिन् , सोऽपि स्वैस्वेतररूपे युगले न वर्तते । तथा यः स्वेतरस्मिन्नेव वर्तते न स्वस्मिन् , सोऽपि स्वस्वेतरयुगले न वर्तते । तथा यः स्वस्मिन्स्वेतरस्मिंश्च न वर्तते, सोऽपि स्वस्वेतरयुगले न वर्तते । अत्र चानुमाने शब्दे विचार्यमाणो धर्मः शब्दत्वादिः स्वस्मिन्नेव वर्तते न स्वेतरस्मिन् , ततः स युगलावृत्तिरुच्यते । तथा दृष्टान्ते घटादौ विचार्यमाणाः घटत्वादयः स्वेतरस्मिन्नेव वर्तन्ते न स्वस्मिन् , तथा काप्युभयत्राप्यवर्तिनो भवन्ति, तेऽपि युगलावर्तिन उच्यन्ते इत्यर्थः । इत्यादि सबै यथार्थसिद्धि अर्थसिद्धयनतिक्रमेण विचार्यमिति :काव्यार्थः ॥
एवंविधं साध्यमनित्यतां विना शब्दस्य नोत्पद्यत एव तस्मात् ।
शब्दोऽस्थिरः स्यादिति पारिशेष्यात्सर्वानुमानेब्बिह साध्यसिद्धिः ॥ ५ ॥ एवंविधं स्वस्वेतरवृत्तित्वानधिकरणानित्यवृत्तिधर्मवानित्यादिरूपं महाविद्यासाध्यं शब्दस्य ... कृतस्यानित्यतां विना नोत्पद्यते । तस्माच्छब्दोऽनित्यः स्यादित्येवंविधपारिशेष्यात्सर्वमहाविद्यानु नेषु अनित्यत्वादिरूपसाध्यसिद्धिविधेया । यतः प्रायेग हि महाविद्या तुमानेषु पारिशेष्येणैव वि क्षितलाध्यसिद्धिविधीयते । परिशेषलक्षणं चेदम्-" प्रसक्तप्रतिषधेऽन्यत्राप्रसंगाच्छिष्यमाणे संप्र. त्ययः परिशेषः ।" इति पद्यार्थः ॥
केवलान्वयिनि व्यापके प्रवर्त्तमानो हेतुः पक्षे व्यापकप्रतीत्यपर्यवसानबलादन्वयव्यतिरेकिसाध्यविशेषं वाद्यभिमतं साधयन्महाविद्येत्युच्यते । तस्य च महाविद्यात्वमसिद्धत्वादिसकलदोषविरहः । प्रमेयत्वादीनां निर्णीतपक्षवृत्तित्वेन पक्षधर्मत्वासिद्धेरसम्भवात् । केवलान्वयिनि साध्याभावाप्रसिद्धौ साध्या
१ सर्वमहा” इति च पुस्तकपाठः । २ °पि च स्वेतर' इति च पुस्तकपाठः । ३. सिद्वादिस इति ज पुस्तकपाठः।
Aho! Shrutgyanam