________________
श्रीभुवनसुन्दरसूरिकृतटीकायुतं शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः स्वाभीष्टदेवतानमस्कारपूर्व प्रवर्तन्ते इति पूर्वपुरुषमार्गानुवर्तनाय निर्विघ्नं शास्त्रपरिसमाप्तये स्वपरयोर्मङ्गलाभ्युदयाय चादौ नमस्कारमाह-वाकायचेतः प्रभवेत्यादि । हे गौरीपते महेश, त्वामहं शरणं प्रपद्ये । गौर्याः पतिः गौरीपतिरित्युक्तेऽन्योऽपि पुरुषवि. शेष: स्यादित्याशङ्कयाह-उन्मुद्रितेत्यादि । उन्मुद्रितं प्रकटीकृतं ज्ञानमेव सुधानिधानं येन सः । तथा तस्य संबोधनं हे उन्मद्रितेत्यादि । एतावत्युक्ते कियज्ज्ञानशाली पुरुषविशेषोऽप्येवंविधः स्यात्, तब्यवच्छेदायाह-वाकायचेत इत्यादि । वाकायचेतोभ्यः प्रभवो योऽपराधो दुष्टभाषणकरणचिन्तनादिरूपस्तस्य प्रबन्धः सातत्यम् । तस्य यः संबन्धः, तद्रूपमेव यत्तमः तिमिरं, तस्मिन्प्रकाशः प्रकाशरूपः । यथा हि भान्वादिप्रकाशेन तमःपटलं विलीयते, तथा महेशोपासनया वाचिककायिकमानसदोषसंततिरपीत्यर्थः । एतावता एवंविधविशेषणविशिष्टत्वं महेश्वरस्यैव जाघटीति नान्यस्येति कर्तुरभिप्रायः । इति प्रथमपद्यार्थः ॥ १॥
समुल्लसति वादीन्द्रचन्द्रे शङ्करकिङ्करे।
उन्मीलन्ति महाविद्यादोषकैरवकोरकाः ॥२॥ (भुवन०)-अथ ग्रन्थकारः स्वस्य महाविद्यादूषणोद्घोषणायां कौशलं प्रचिकटयिषुराहसमुल्लसति वादीन्द्रचन्द्रे इत्यादि । वादीन्द्र एव चन्द्रः । तस्मिन्समुल्लसति दोषकैरवकुड्मला उन्मीलन्ति विकसन्तीत्यन्वयः । यश्चन्द्रः स भगवतो भालोपासनलालसतया शङ्करकिङ्करः स्यात् । तथा तदुदये कैरवकोरकोल्लासः स्यादेवेति युक्त एवायमर्थः ॥२॥ अथ महाविद्या कथं समुत्पन्नेतिवाच्यमार्याद्वयमुच्यते
भाट्टा नित्यं शब्दं योगाद्या वादिनस्त्वनित्यं च । प्रतिजानते ततोऽयं जातस्तेषां विवादोऽत्र ॥ १॥ तत्तस्यानित्यत्वं प्रतिपादयितुं तु भाट्टवादीन्द्रान् ।
योगांचायों वर्यः कृतवानेतां महाविद्याम् ॥२॥ अत्राद्यपरिच्छेदे महाविद्यानुमानानि वादीन्द्रेण प्रोक्तानि । तत्र महाविद्यास्वरूपमज्ञात्वा महाविद्या दुरधिगमेत्यतो महाविद्यारहस्यं पद्यत्रयेण प्रकाश्यते । तथा हि
अन्वयिव्यतिरेकित्वोपेतमूलानुमाविधौ ।
महाविद्यानुमानं तु प्रयोज्यं केवलान्वयि ॥ ३ ॥ यत्र मूलानुमानं मुख्यानुमानमन्वयव्यतिरेकि स्यात् तत्र महाविद्यानुमानं प्रयोज्यम् । किं विशिष्टं, केवलान्वयि । तथाहि-अनित्यः शब्दः कृतकत्वात् घटवत् इत्यत्रान्वयव्यतिरेकिणि मूलानुमाने महाविद्यानुमानं यथा-अयं शब्दः स्वस्वेतरवृत्तित्वानधिकरणेत्यादि । इदं च केवलान्वयि एवेत्यर्थः ॥ महाविद्यानुमानेषु सर्वेष्वेते भावा विचार्याः । तथाहि
शब्दस्यास्थिरतोपलक्षणमिदं साध्यं तु चित्तेप्सितं
दृष्टान्ताय च केवलान्वयितया स्थाप्याः पदार्थाः समे। १ योगाचार्यों इति च पुस्तकपाठः।
Aho ! Shrutgyanam