________________
३७
न्यायपरिशुद्धिटीका न्यायसाराख्या - ( श्रीनिवासाचार्यकृता )
पृ. १२६
पृ. १९९
पृ. २७६
पृ. २७८
श्रीमहाविद्या मानमनोहर: प्रमाणमञ्जरीति ग्रन्थनामधेयानि । एवंजातीयका अन्येऽपि ग्रन्थाः सन्ति । तत्र तत्र पठितानि परपक्षसाधारणानि वक्रानुमानान्यप्रयोजकतया व्याप्यत्वासिद्धान्तर्भूतान्येवेत्यर्थः ।
तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमाख्यटीकायुतः - (श्रीवेङ्कटनाथवेदान्ताचार्यकृतः)
पृ. ४७८
अत्र मतभेदेन लक्षणद्वयमाह । साधनाव्यापकत्वे सति साध्यसमव्याप्तो धर्म उपाधिरित्युदयनः । साधनाव्यापकत्वे सति साध्यव्यापक इति समशब्दप्रतिक्षेपेवादीन्द्रः ।
अतो वक्रानुमानं केवलान्वयिरूपमपि साधनजातिरेव, स्वव्याघातात् । जातिर्द्विविधा, साधनजातिर्दूषणजातिश्च । तत्र साधनजातिर्महाविद्या, दूषणजातिः प्रतिधर्मसमाधरिति विचक्षणानां निर्णयः । एतत्सर्वं विडम्बने विस्तरेण द्रष्टव्यम् । अतो वक्रानुमानस्य नानुमानत्वप्रसङ्ग इति । कुमारिलादयो व्यतिरेकिणं निरस्यन्ति, वादीन्द्रादयोऽन्वयिनमिति विशेषं दर्शयति । एवं केवलान्वय्यङ्गीकारे महाविद्याप्यङ्गीकार्या, तस्या अपि केवलान्वयित्वात् । तथा च पूर्वोक्तं तन्निराकरणं न युज्यते । किञ्च सकलसपक्षवृत्तिः केवलान्वयी महाविद्येत्युच्यते । तच्च न संभवति । प्रमेयत्वाभिधेयत्वादीनां सर्वस्थत्वे स्वात्मन्यपि वृत्तिप्रसङ्गात्, तदभावे केवलान्वयित्वाभावादिति चोदयति--सर्वस्थ इति । इत्थं बहुविधतर्ककर्कशं महाविद्यानुमानं न प्रतितिष्ठतीत्याह — तत्र चैवं विकस्पादिति । यथासंभवं विकल्पानां भूयस्त्वादित्यर्थः । इयमुत्प्रेक्षा केवलान्वयिरूपमहाविद्यादिविभागं विघटयतु न वा, सर्वथा अन्वयव्यतिरेकि सद्भावाद्याप्तिरभजरेत्याह - इतीति । न वेत्युक्त्या विभागविघटनं न सिद्ध्यतीत्यभिप्रैति । अयमभिप्रायः - महाविद्या चेत् स्वव्याघातादिभिः प्रागेव दूषिता, अभिधेयत्वादिसाधकं प्रमेयत्वादिकं तु सर्वथा केवलान्वयि च भवति । तस्य त्वदुक्तदूषणाभासैरपाकरणशङ्कापि नाङ्कुरतीति ॥ एतादृशजात्यन्तर्गतैर्विकल्पे दूषणकथने शून्यवादो दुर्वारः । भवान् पुनर्महाविद्यामेव विडम्बयन् न शून्यवादी, तत्तत्स्थापनप्रवणत्वात् ।
पृ. ४८६
पृ. ४८९
33 33
पृ. ४९०
८. ४९१
6
अव्याहत साध्यविपर्ययत्वादेव कुदृष्टिभिः स्वाभिमतसाधनत्वेनोत्प्रेक्षितानि महाविद्यानुमानानि आभासीकृतानीत्याह — अत एवेति ।
महाविद्यारीतीनामिति । महाविद्यारीतयश्च प्रतिबन्धाद्यान्हिकेऽस्माभिः प्रपञ्चि
तास्तत्र द्रष्टव्या: ।
तथा च मानान्तरात्साध्यसिद्धौ महाविद्यायाः साधनत्वं न पुरस्कार्यमित्यप्रयोजिकेमहाविद्या इति भाव: ।
Aho! Shrutgyanam