SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पृ. २२१ पृ. २३५ पृ. २४३ पृ. २८४ पृ. २८९ पृ. ३०४ पृ. ५६७ पृ. १३७ पृ. २२ पृ. १२५ पृ. १९९ पृ. २७२ पृ. २७५ पृ. २७८ ३६ वादीन्द्रस्तु बाधितत्वात्यन्ताभावोऽबाधितत्वमित्याह । एतेनास्य वन्हिविशेषस्य पूर्व प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतिरिति वदन्वादीन्द्रोऽपि विद्रावितः । पक्षधर्मताखण्डनेन महाविद्याजीवनमपि खण्डितं वेदितव्यम् । केवलान्वयिनि व्यापके प्रवर्तमानो हेतु: पक्षे व्यापक प्रतीत्यपर्यवसानबलादन्वयव्यतिरेकि साध्यविशेषं वाद्यभिमतं साधयन्हि महाविद्येत्युच्यते । तथा च व्यापक प्रतीत्यपर्यवसानानिरुक्तौ तासामप्यनिरुक्तेः दग्धसारं चेदं वादीन्द्रदावानलेन महाविद्याविपिनमिति नामाभिस्तद्भस्मीभावाय संरभ्यते । महाविद्यानुमानमप्याह — अयं घट इति । तथा निरवयवत्वं स्वस्वेतरवृत्तित्वानधिकरण मूर्तनिष्ठत्वरहितनिष्ठधर्माधिकरणत्वं मे - यत्वात् इत्यादि महाविद्या भिरेवार्थतः सत्प्रतिपक्षता केन वार्य I एवं हि महाविद्या कोविदाः प्राहुः श्रमादुपरमेऽपि न दोष इति । तदित्थं स्वपरपक्षाणामेषां पारिप्लवावहा । आरादेव परित्याज्या महाविद्याभिसारिका ॥ एवं प्रत्यक्षं जातौ प्रत्याख्याय कुलार्कपण्डितोन्नीतमनुमानमुद्भावयति दूषयितुं - तर्हीति । वेदान्तकल्पतरुः- ( अमलानन्दयतिकृत: ) एवं सर्वा महाविद्यास्तच्छाया वान्ये प्रयोगाः खण्डनीया इति । शास्त्रदर्पण: - ( अमलानन्दयतिकृतः ) महाविद्याश्चैतद्विषया वेदान्त कल्पतरौ निर्भत्सिताः । तर्कसंग्रहः - ( आनन्दज्ञानविरचितः) आत्मत्वं स्पर्शवदवृत्तिज्ञानवद्वृत्तिजात्यन्यत् जातित्वादिति आभाससमानता इति चेत् । तर्हि सर्वास्वेव महाविद्यासु एवमाभाससमानतासंभवादुच्छिन्नसंकथास्ताः स्युः । न्यायपरिशुद्धि: - ( वेङ्कटनाथवेदान्ताचार्यकृता ) अत एव महाविद्यादिरूपकेवलान्वथिनामप्यनवकाशः । अव्याहत साध्यविपर्ययत्वात् । अन्यथा तेषां सर्वसाधकत्वसामर्थ्याभ्युपगभङ्गप्रसङ्गात् । अत एव हि तैर्महाविद्यादिरीतीनां प्रयोगोऽभ्युपगम्यत इति । तत्र यद्यप्यस्मिन्नुदाहरणे लक्षणमसंभवि तथापि महाविद्यादिप्रस्थानेषु केषाञ्चिद्धेतूनां साध्यतदभावयोः समानाकारतया संभवं पश्यामः । प्रमाणान्तरवलात सिद्धयतः साध्यविशेषस्य विपर्यये बाधकमप्यस्तु, न पुनः महाविद्यादिहेतुभिरप्रयोजकैः सिद्धयतः । तस्मादव्याप्तभेद एवायमप्रयोजकः । तत्स्वभावानतिलङ्घनाच्च श्रीमहाविद्या- मानमनोहर - प्रमाणमञ्जर्यादिपठितवक्रानुमानस्यापि तथात्वम् । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy