________________
Extracts from the works of ancient Sanskrit authors who have mentioned Mahávidya, Kulárkapandita and Vádîndra:
तत्त्वप्रदीपिका-(चित्सुखी-चित्सुखाचार्यकृता) पृ. १३ अथवा अयं घटः एतद्घटान्यत्वे सति वेद्यत्वानधिकरणान्यःपदार्थत्वात्पटवदित्यादि
___महाविद्याप्रयोगैरप्यवेद्यत्वप्रसिद्धिरप्यूहनीया।। पृ. १८० तदेवं जातौ व्यञ्जकप्रमाणयोरसंभवेन आकाशवृत्तिसत्ताव्याप्यजातियोगि क्रियासमाना
धिकरणसत्तावान्तरजातियोगि संयोगवत्तिसत्तावान्तरजातियोगि द्रव्यमित्येवमा
दीनि जातिपुरस्कारप्रवृत्तानि महाविद्यालक्षणानि निरस्तानि वेदितव्यानि । तत्त्वप्रदीपिकाटीका नयनप्रसादिनी-(प्रत्ययूपभगवत्कृता) पृ. १३ ये तु वक्ररीतिं रोचयन्ते तान्प्रति महाविद्याभिरपि साध्यप्रसिद्धिं सुलभयति
__ अथवेति । पृ. २१ अवीतपदमाचार्यैरकार्यन्वयगोचराः । महाविद्याः पुनर्दिव्या दीव्यन्त्यत्रानिवारितम् ॥
तथाहि विमतं ज्ञानमेतज्ज्ञानविज्ञानविषयत्वे सति वेद्यत्वरहितज्ञानविषयः पद
विषयत्वात् घटवदित्यादिमहाविद्याभिरपि समर्थनीयं स्वप्रकाशत्वम् । पृ. १८० यानि च महाविद्यानुमानानि द्रव्यत्वजातौ प्रवर्तन्ते तान्यपि परमाणुनिराकरणवादे
___निवेदनीयदूषणदूषितानीति नोदाहृतानि आचार्येण । पृ. १८१ महाविद्यालक्षणानीति—महाविद्यारीत्या प्रवृत्तानीत्यर्थः ।
वादीन्द्रस्तु एतानि लक्षणानि दूषयित्वा स्वमतेन कार्याश्रयो द्रव्यं, गुणश्रयो द्रव्य
मित्यादिलक्षणान्युदाजहार । तानि च तत्रैव निरस्तप्रायाणीति । वादीन्द्रस्तु पृथक्त्वानाश्रयः संख्यानाश्रयः संयोगकारणत्वे सति विभागनिरपेक्षकारणत्वरहितो गुण इत्यादि प्रत्यवादीत् । तन्न । संख्यापृथक्त्वाद्याश्रयत्वस्य पूर्वमेवो
पवर्णनात्। पृ. १८३ यद्वादीन्द्रेण तदुभयान्यतरत्वं नामैकान्योन्याभाववत्वे सति इतरान्योन्याभाववत्त्वा
नधिकरणमिति निर्वचनं कृतं.."तदप्ययुक्तम् । ' ततो वादीन्द्र दर्पस्ते तदन्यतरतादिषु । अखण्डितनिरुक्त्युत्थः पण्डितंमन्य खण्डितः ॥" तेन जातिद्वारा उपाधिद्वारा वा वादीन्द्रादिभिरुत्प्रेक्षमाणलक्षणान्यपि क्षुण्णानि मन्त
व्यानि । अपि च । वादीन्द्रस्येष्टदा तावन्महाविद्या पुलोमजा । सा च सव्यभिचारादिदोषैः संदूषितात्मना ॥ ...... नोपादेया महाविद्यामुद्रिता जातु जातयः । तत्त्वं चापि स्वीययत्नाजिगीषयिषुभिर्बुधैः ॥ शक्यते च सर्वप्रकारविप्लवो महाविद्याभिः साधयितुं, ग्रन्थगौरवभयान्न प्रपञ्यते सः ।
"
"
Aho ! Shrutgyanam