________________
११४
भुवनसुन्दरसूरिकृतटीकायुतं एवंविधेति । यद्धेतूंनामनैकान्तिकत्वं साधयितुं शक्यते, तान्येवंविधानुमानानि महाविद्यानुमानादीनि तेषामस्माभिः प्रामाण्यं नाङ्गीक्रियते इत्याशयः । ___एवं पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं मेयत्ववनिष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतद्धर्मत्वरहिताधिकरणं, मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहिताधिकरणत्वान्यत्वात् घटवदित्यादिभिरपि सर्वमहाविद्यासु अनैकान्तिकत्वं साधनीयमिति ।
__ (भुवन०)-महाविद्यानैकान्तिकत्वसाधनाय तार्तीयिकमनुमानं दर्शयति-पक्षीकृतशब्देति। पक्षीकृतेत्यादि महाविद्यासाध्यं पक्षः । मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वव्यतिरिक्तश्चासौ एतद्धर्मत्वरहितश्च, तदाश्रयः इत्यन्वयः । मेयत्ववति मेये निष्ठो योऽत्यन्ताभावस्तस्य यत्प्रतियोगित्वं धर्मस्तस्मादन्यः । एतद्धर्माः पक्षीकृतमहाविद्यासाध्यधर्माः, तत्त्वेन रहितश्च धर्मः पक्षीकृतमहाविद्यासाध्यान्यधर्मो वा, व्यतिरिक्तपदेन कर्षितं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वं वा । आद्यो व्याहतः। न हि पक्षान्यधर्मः पक्षे वर्तते इति सम्भवति । द्वितीयस्तु पक्षे सिध्यन क्वापि मेये पक्षीकृतमहाविद्यासाध्यस्याभावं साधयति । तथा च साधनवति साध्याभावान्मेयत्वस्य व्यभिचारपिशाचसंचारदुःसंचरत्वम् । आद्यः पक्षः पक्षान्यधर्मरूपः सर्वत्र सपक्षे प्रयोजकः । मेयत्वादिव्यावृत्त्यर्थमेतद्धर्मत्वरहितग्रहणम् । एतद्धर्मत्वरहिताधिकरणमित्युक्ते व्याघातः, तव्यावृत्त्यर्थ मेयत्ववनिष्ठेत्यादिग्रहणम् । अत्र यत्साध्यं तदन्यत्वादिति हेतुरिति हेतुव्यावृत्त्यानि स्पष्टानि ।
इति सव्यभिचारत्वदोषेणाकुलिता सती।
कुलस्त्रीव महाविद्या प्राणानुज्झति लजिता ॥ १२ ॥ ( भुवन० )-सव्यभिचारत्वमुपसंहरति-इति सव्यभिचारेति ॥ १२ ॥
अथ सत्प्रतिपक्षत्वं पक्षिराजस्य पक्षतिः।
पराभवति दुर्वारमहाविद्याभुजङ्गमान् ॥ १३ ॥ ( भुवन० )-सत्प्रतिपक्षत्वदोषायोपक्रमते-अथ सदति । सत्प्रतिपक्षत्वं प्रकरणसमत्वं, प्रत्यनुमानवाधितत्वमिति यावत् । पक्षिराजस्य गरुडस्य पक्षतिः पक्षमूलम् ॥ १३ ॥
धर्मी च त्वभीष्ठसाध्यरहितः साध्यस्तदेकाश्रितैः
साध्याभाववदाश्रितत्वरहितैः साध्यप्रसिद्धिः पुनः । साध्यं ते स्वभिदान्यजन्मनिधनाऽनाक्रान्तभावस्फुर
द्भेदस्य प्रतियोगितत्त्वविरहादित्यादिभिर्जायते ॥१४॥ धर्मी पक्षीकृतः शब्दः । त्वद्भीष्टं साध्यं, स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वादि । तद्रहितः तदत्यन्ताभाववान् । साध्यः अनुमेयः इत्यर्थः ।
१ "ति । यैः सर्वहेतूना' इति च पुस्तकपाठः । २ "सिध्यन्न क्वापि इति द पुस्तकपाठः ।
Aho ! Shrutgyanam