________________
५०३
महाविद्याविडम्बनम् ।
११५
प्रयोगस्तु-अयं शब्दः एतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभा. ववान्, एतदन्यत्वरहितत्वात् । यत्पुनरेतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभाववत् ने, न तदेतदन्यत्वरहितं यथा घटः । एतदन्यत्वरहितश्चायम् । तस्मादितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभाववानित्यादि । साध्याभावववृत्तित्वरहितत्वे सति साध्यवद्धृत्तित्वं साध्यव्याप्यत्वम् । न चैतप्रकृतपक्षनिष्ठसाध्याधिगममन्तरेण शक्यमधिगन्तुमिति व्याप्यत्वासिद्धः प्र. कृतो हेतुरिति चेत् । न । साध्याभावववृत्तित्वरहितत्वमात्रेण व्याप्यत्वेनानुमानोपपत्तौ साध्यववृत्तित्वस्य वैयर्थेन व्याप्यकोटिनिवेशाभावात् । साध्याभावववृत्तित्वरहितत्वमात्रस्य व्याप्यत्वे गगनादीनामपि प्रकृतसाध्यव्याप्यत्वप्रसक्तिः । तेषामप्यनाश्रितत्वेन प्रकृतसाध्याभाववदाश्रितत्वविरहादिति चेत् । एवमस्तु, को दोषः । तथा सति गगनादीनां प्रकृतसाध्यानुमापकत्वप्रसङ्ग इति चेत् । न । व्याप्यत्वेऽपि तेषामनाश्रितत्वेन पक्षधर्मत्वानुपपत्तेः । तदिदमुक्तम्-साध्याभाववदाश्रितत्वरहितैरिति ।
(भुवन०)-सत्प्रतिपक्षतां दर्शयति-धर्मी चेति । धर्मी शब्दः, त्वदभीष्टं साध्यं महाविद्यासाध्यं, तेन रहितः साध्यः साधनीयः । कैः । तदेकाश्रितैः । तस्मिशब्दे एवैकस्मिन् ये आश्रिता धर्माः शब्दमात्रनिष्ठास्तैरित्यर्थः ॥ १४ ॥
श्लोकं व्याचाख्येति-धर्मी पक्षीकृत इति । प्रयोगेण सत्प्रतिपक्षतां स्पष्टयतिअयं शब्द इत्यादि । अयं शब्द: पक्षः, एतदितरेत्यादिमहाविद्यासाध्यस्य योऽत्यन्ताभावस्तद्वान् एतदन्यत्वरहितत्वात् । एतस्माच्छन्दाद्यदन्यत्वं तेन रहितत्वात् एतच्छब्दत्वादित्यर्थः । व्यतिरेकन्याप्तिमाह-यत्पुनरित्यादि। यन्महाविद्यासाध्यरहितं तदेतच्छब्दादन्यदेव, यथा घटादीति तात्पर्यार्थः । व्याप्तिभङ्गाथै व्याप्यत्वस्वरूपं परः प्ररूपयति-साध्याभावेति । साध्याभाववान्विपक्षः तत्र वृत्तित्वरहितत्वेऽवर्तमानत्वे सति साध्यवति सपक्षे वृत्तित्वं यत्तत्साध्येन हेतोाप्यत्वम् । न चैतत्साध्यव्याप्यत्वं प्रकृतपक्षोऽयं शब्दः, तन्निष्ठं साध्यं महाविद्यासाध्याभाववत्त्वं तस्याधिगमं विना शक्याधिगमम् । व्यतिरेकित्वेन सपक्षस्य साध्यवतोऽत्रानुमानेऽभावात् । व्याप्यत्वासिद्ध इति । हेतोर्यत्साध्येन व्याप्यत्वं तेनासिद्धोऽन्वयव्याप्तिशून्यो भवदुक्तो हेतुरिति तत्त्वम् । सिद्धान्ती समाधत्तेन।साध्याभावेति । साध्याभाववान्विपक्षः, तत्रावर्तमानत्वमात्ररूपेण हेतोाप्यत्वेन अनुमानोपपत्तौ,साध्यवान्सपक्षः, तत्र वृत्तित्वस्य व्यर्थत्वेन, व्याप्यो हेतुस्तस्य कोटावप्रभागे निवेशाभावात् । इदं तात्पर्यम्-साथ्याभाववद्वत्तित्वरहितत्वमात्रमेव हेतोर्लक्षणम् । सपक्षवृत्तित्वं तु हेतुलक्षणं
- १ वस् न भवति, नतदें। इति घ पुस्तकपाठः । २ मात्रेणैव व्या । इति घ पुस्तकपाठः। ३ प्रसिद्धिः। ते इति घ पुस्तकपाठः।
Aho ! Shrutgyanam