________________
११३
५०३
महाविद्याविडम्बनम् । . (भुवन०)-उत्तरार्धं व्याचष्टे-यद्वैवमिति । अत्र पूर्वोक्तः एव पक्षः । पूर्वोक्तसाध्यमध्याञ्च स्वान्योन्याभावव्यतिरिक्तेति पदं त्यक्तं, अत्यन्ताभावेति चोपात्तम् । शेषं तदेव । हेतुश्चात्र यत्साध्य तदन्यत्वादित्येव, परं मेयत्वान्यत्वे सतीत्यधिकं पदम् । तच्च चेन्न गृह्येत, तर्हि मेयत्वे मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वान्यत्वरूपसाधनसत्त्वेऽपि मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वाश्रयत्वरूपसाध्याभावेन यत्र यत्र साधनं तत्र तत्र साध्यमिति व्याप्त्यभावान्मयत्वेन व्यभिचारो भवेत् । तद्व्यावृत्त्यर्थं मेयत्वान्यत्वे इत्युपादायि । मेयत्वं चाशेषलक्षणम् । अन्येऽपि वाच्यत्वसत्त्वादयो ये केवलान्त्रयिधर्मास्तदन्यत्वे सतीति मन्तव्यम् । अन्यथा वाच्यत्वादिभिरपि व्यभिचारः केन निवार्येतेति भावार्थः । यद्वा मेयनिवृत्ततेति । मेयानिवृत्तो मेयनिवृत्तः, तस्य भावो मेयनिवृत्तता । एतावता मेयनिष्ठात्यन्ताभावप्रतियोगित्वं प्रोक्तम् । यतो मेयनिष्ठात्यन्ताभावप्रतियोगी मेयनिवृत्त एवेति । मेयनिवृ. तताया अधिकरणं त्वदीयं साध्यं महाविद्यासत्कम् । एतावता पक्षीकृतेत्यादिपक्षे मेयत्ववन्निष्ठेत्यादि साध्यं सूचितम् । ततो भिन्नत्वादिति । ततो मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वधर्मान्मेयत्वधर्माच्च भिन्नत्वादन्यत्वादित्यर्थः । अनेन मेयत्वान्यत्वेत्यादिहेतुरसूचि । अयं सर्वसव्यभिचारत्वपक्षपरमार्थः-महाविद्यासाध्यं स्वस्मिन्वर्तते न वा । वर्तते चेत्तदा आत्माश्रयः । नो चेत्तर्हि स एव विपक्ष इति युक्त्या महाविद्यासाध्ये महाविद्यासाध्यवर्जिते तथा पूर्वानुमानाभ्यां मेयमध्ये महाविद्यासाध्याभावसाधनात्, महाविद्यासाध्यरहिते घटादिमेये च मेयत्वस्य वर्तनात् अनैकान्तिकत्वमित्यर्थः। ___ न चैवं सैति सकलसाध्यानि पक्षीकृत्य सर्वहेतूनामनैकान्तिकत्वस्य साधयितुं शक्यत्वात्सर्वानुमानोच्छेद इति वाच्यम् । महाविद्यानुमानानैकान्तिकत्वस्य तत्साधनस्य च सकलानुमानानैकान्तिकत्वेन तत्साधनेन च व्यास्यभावेन ताभ्यां तयोरापादयितुमशक्यत्वात् । एवंविधानुमानानां चास्माभिः प्रामाण्यानङ्गीकारात् । महाविद्यावादिना चैवंविधानुमानप्रामाण्ये विप्रतिपत्तुमशक्यत्वादिति।
( भुवन० )-न वाच्यमित्यत्र हेतुमाचष्टे-महाविद्यानुमानानैकान्तिकत्वस्येति । महाविद्यानुमानानैकान्तिकत्वस्य प्राक्प्रदर्शितस्य सर्वानुमानानैकान्तिकत्वेन सह, तथा महाविद्यानुमानानैकान्तिकत्वसाधनस्य सर्वानुमानानैकान्तिकत्वसाधनेन सह व्याप्त्यभावात् । व्यात्यभावश्चात्रेत्थम् । न हि यत्र यत्र महाविद्यानुमानानैकान्तिकत्वं तत्र तत्र सकलानुमानानैकान्तिकत्वमिति तथा यत्र महाविद्यानुमानानैकान्तिकत्वसाधनं तत्र सर्वानुमानानैकान्तिकत्वसाधनमिति च व्यातिरस्ति । व्याप्त्यभावेन किं तदित्याह-ताभ्यां तयोरापादयितुमिति । ताभ्यां महाविद्यानुमानानैकान्तिकत्वतत्साधनाभ्यां तयोः सर्वानुमानानैकान्तिकत्वतत्साधनयोरापादयितुमशक्यत्वात् । यतः आपादकेनापाद्यं तदैव आपाद्यते यद्यापाद्यापादकयोाप्तिः स्यात् , व्याप्तिमूलत्वात्तकस्य । द्वितीयं हेतुं ब्रूते
१°न चैवं सक। इति घ, ज पुस्तकपाठः। १५ महावि०
Aho! Shrutgyanam