________________
११२
भुवनसुन्दरसूरिकृतटीकायुतं
सापेक्षत्वं वारयति मेयनिष्ठेतिपदेन । ननु कथमत्र व्याप्यवगमोऽत्राह - पक्षीकृतसाध्येत्यादि । घटान्योन्याभाव: पटेऽस्ति, पटान्योन्याभावश्च घटे इत्येवंप्रकारेण सर्वेषां घटपटादीनामन्योन्याभावः प्रमेयेऽस्ति । ततस्तेषां घटपटादीनां सपक्षता । तेन साध्याभाववतीति । अयमाशयः । अनेनानुमान महाविद्या साध्यस्य मेयेऽत्यन्ताभावोऽस्तीति साधितम् । मेयत्व हेतुस्तु तत्रापि मेये वर्तत इति साध्याभाववति गमनान्मेयत्वस्य अनैकान्तिकत्वम् । नन्वयमपि भवतो हेतुर्महाविद्याया इव केवलान्वयी, ततोऽस्यापि हेतोरनैकान्तिकत्वं कथं नेत्याह-अयं हेतुरित्यादि । अयं मेयत्वादिति हेतुः । तर्हि भवद्भिः किं हेतुक्रियतेऽवाह - अस्माकं त्विति । अत्र साध्यधर्मान्यत्वादिति हेतु: । व्याप्तिश्च यत्स्वान्योन्याभावव्यतिरिक्तमेयनिष्ठाभावप्रतियोगित्वान्यत् तत्स्वान्योन्याभावव्यतिरिक्त मेयनिष्ठाभावप्रतियोगित्वाश्रयो यथा घटादि । अयं भावः । सर्वेऽपि भावा: परस्परापेक्षया मेयनिष्ठा - त्यन्ताभावप्रतियोगित्ववन्तः, तथा मेयनिष्ठोत्यन्ताभावप्रतियोगित्वरूपो यो धर्मस्तस्मादन्ये भिन्ना अपि भवन्ति । धर्मधर्मिणोर्भिन्नत्वात् ।
व्यतिरेकव्याप्तिस्तु यन्मेयनिष्ठाभावप्रतियोगित्वाश्रयो न भवति, तन्मेयनिष्ठाभावप्रतियोगित्वान्यन्न भवति । यथा मेयनिष्ठाभावप्रतियोगित्वमेव, स्वात्मन्यवृत्तेः । तेन तस्मिन्नेव तदत्यन्ताभाववति मेयत्वस्य अनैकान्तिकत्व - मिति परिहृतम् ।
( भुवन० ) - अस्यापि हेतोः केवलान्वयित्वेन कथं न व्यभिचाराशङ्केत्याह-व्यतिरेकव्याप्तिरित्यादि । व्यतिरेकव्याप्तौ मेयनिष्ठाभावप्रतियोगित्वं दृष्टान्तः । तच्च मेयनिष्ठाभावप्रतियोगित्वस्याश्रयो न भवति, स्वस्मिन्स्वस्य अवृत्तेः । नापि मेयनिष्ठाभावप्रतियोगित्वं स्वस्मादन्यद्भवति । स्वस्य स्वतोऽन्यत्वे स्वरूपस्यैव हाने: । तेन तस्मिन्निति । तेनान्वयव्यतिरेकि - तूकरणादिकारणेन तस्मिन्नेव महाविद्यानुमानोत्थापकानुमानसाध्य एव स्वात्यन्ताभाववति वर्तनामेयत्वहेतोरनैकान्तिकत्वं परेणोद्भाव्यमानमाशङ्कय परिहृतमित्यर्थः ।
यद्वैवं प्रयोगः - पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वाधिकरणं, मेयत्वान्यत्वे सति मेयत्ववन्निष्टात्यन्ताभावप्रतियोगित्वान्यत्वात्, घटवदिति । तदिदमुक्तं - यद्वा मेयनिवृताधिकरणं साध्यं त्वदीयं ततो, भिन्नत्वादिति साध्यवर्जिततनौ लब्धस्थितिर्मेयता । मेयनिवृत्तता मेयनिष्ठात्यन्ताभावप्रतियोगित्वम् । ततो भिन्नत्वादिति । मेयनिष्ठात्यन्ताभावप्रतियोगित्वमेयत्वाभ्यामन्यत्वादित्यर्थः । एवं सर्वमहाविद्या साध्यानि पक्षीकृत्य अनैकान्तिकत्वं साधनीयम् ।
१ निष्ठान्योन्याभाव इति च पुस्तक पाठः । २ निष्ठान्योन्याभाव' इति च पुस्तक पाठः ।
Aho! Shrutgyanam